SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३] मानसोल्लासः । शतपत्रं संमरुकं शतपत्रं सपाटलम् । मालती मल्लिका यूथी वर्णपुष्पेण संयुता ॥ ४६ ॥ रुवैती तथा यूथा ( थी) नेवाली च तथा मता । बिभर्ति माल्यं शिरसा नृपतिः स्वानुसारतः ॥ ४७ ॥ स्वेपके (स्वकेशेषु च कुल्या (कण्ठे ) च माल्यभोगः प्रकीर्तितः । इति माल्योपभोगः ॥ ७ ॥ एवं विधार्य माल्यानि भूषणान्यथ भूपतिः ॥ ४८ ॥ - रत्नहेममयान्यङ्गैर्विभृयात्सैप्रभाणि च । यन्त्रसंघट्टितानीव सुवृत्तान्युज्ज्वलानि च ॥ ४९ ॥ नवनीरसुकान्तानि मौक्तिकानि वराणि च । शुक्तिगर्भसुमुक्तानि कुम्भिकुम्भोद्भवानि च ।। १०५० ॥ वंशरन्ध्रमभूतानि मेघधाराभवानि च । सिंहलद्वीपजातानि रत्नाकरभवानि च ॥ ५१ ॥ दाडिमबीजकान्तानि शक्रगोपनिभानि च । रक्तपद्मसरागणि बालसूर्यप्रभाणि च ॥ ५२ ॥ माणिक्यान्यतिरैम्याणि स्थूलानि विविधानि च । अतसीपुष्पसङ्काशं हरिकान्त (न्ति ) समप्रभम् ॥ ५३ ॥ हरकण्ठसमच्छायमिन्द्रनीलं प्रभायुतम् । रोहिणाद्रिसमुद्भूत (तं) तृणग्राहि मनोहरम् ॥ ५४ ॥ मसृणं चातिशोभाढ्यमिन्द्रनीलं सुपीवरम् । इन्द्रायुधान्त (र्ग)र्भेण हरितेन समप्रभम् ॥ ५५ ॥ कीर पक्षसंक्षाभं गरुडोद्वारसम्भवम् । श्लक्ष्णं मरकतं कान्तं नलिका (ना) भं दलोपमम् ॥ ५६ ॥ विषघ्नं दुर्लभं रत्नं बहुमूल्यं मनोहरम् । सितं ब्राह्मणजातीयं रक्तं क्षत्रियजातिकम् ॥ ५७ ॥ ९१ ७ १ D कुरब । २ CDF ह । ३ C खो D खोम्प । ४ F स । ५ Fत्सु । ६ F टि | D गात्राणि । ९ D रागाणि । १० A नृ । ११ A लि । १२ A सवृक्षाभं समक्षाभं । १३ मा Aho! Shrutgyanam D11
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy