________________
मानसोल्लासः।
[अध्यायः७
AAAA
.
वसन्ते विभृयाद्राजा क्षौमकासकानि च । सुश्लक्ष्णानि मनोज्ञानि सूक्ष्माणि विरलानि च ॥ ३४ ॥ निदाघे धारयेद्राजा सितानि विविधानि च । रोमजानि सुसूक्ष्माणि श्लक्ष्णानि विविधानि च ॥ ३५ ॥ माञ्जिष्ठानि च रक्तानि प्राट्काले विधारयेत् । पाटलान्यभिरामाणि धूम्राणि मधुराणि च ॥ ३६ ॥ शरत्कालेऽतिसूक्ष्माणि वसनानि विधारयेत् । कौसुम्भानि मुभव्यानि लाक्षिकानि घनानि च ॥ ३७ ।। अडिन्काश्च पटीजाताः शीतकाले भव( जे ) न्नृपः । ऋतूनामनुसारेण शृङ्गारस्यानुसारतः ॥ ३८ ॥ शीतवाते प्रयाणे च पापद्धौं वारिखेलने । सूक्ष्माणि बहुमूल्यानि वर्णाढ्यानि वराणि च ॥ ३९ ॥ नानाद्वीपसमुत्थानि श्रृङ्गारे धारयेन्नृपः । एवं यद्विभृयाद्वस्त्रं वस्त्रभोगः प्रकीर्तितः ॥ १०४०।। वस्त्रभोगोऽयमाख्यातः सोमेश्वरमहीभुजा ।
इति वस्त्रोपभोगः ॥ ६ ॥ अधुना कथ्यते सम्यङ् माल्यभोगो मनोहरः॥४१॥ वस्त्रप्रसाधनं कृत्वा ततो माल्यं विधारयेत् । चम्पकं मल्लिकायुक्तं चम्पकान्युत्पलैः सह ॥ ४२ ॥ चम्पकं सुरभीयुक्तं चम्पकं पाटलान्वितम् । मल्लिका पाटलायुक्ता मल्लिका सुरभीयुता ॥४३॥ मल्लिका बकुलैर्मिश्रा मल्लिकोत्पलसंयुता । मालती मल्लिकोपेता मालती पाटलान्विता ।। ४४ ।। मालती बकुलोपेता मालती सुरभीयुता । करवीरेण संयुक्तं शतपत्रं मनोहरम् ॥ ४५ ॥ D विचित्राणि । २D स । ३ D F ता। ४ A चाऽप ? । ५ A वा।
Aho! Shrutgyanam