________________
विंशतिः३]
मानसोल्लासः।
M-MvVAARAR
उष्णतैले समुद्धृत्य कटुतैलेन लेपयेत् । विकीर्य च निशाचूर्ण छायायां च विशोषयेत् ॥ ९९७॥ एवं सचिनुयाद्भरि काथयेत्संचितान्यपि । श्रीक्षाम्रकजम्बूनां तुलसीवीजपूरयोः ॥ ९९८ ॥ पल्लवैः कथितैस्तोयै-जानि क्षालयेत् पुनः। प्रक्षाल्य शोषयेत्तज्ज्ञस्ततः कुयोच्च खण्डशः ॥ ९९९ ॥ निक्षिप्य वारिमध्ये च बीजपूरफलत्वचः। कैथयेन्मोचयेत्पश्चात्ततः स्नेहोऽपि निःसरेत् ॥ १००० ॥ तोयोपरिस्थितं स्नेहं शुक्त्या काञ्चनजातया । आहरेच्च प्रयत्नेन यद्वा बीजानि तापयेत् ॥ १॥ पेषण्यां पीडयित्वा च स्नेहं निःसारयेद्वधः । निःसारितं ततः स्नेहं सितया धूपयेत्पुनः ॥ २॥ पश्चाच्च लघुकपूरैर्वारं वारं च धूपयेत् । पुंल्लिङ्गं नाम तं प्राहुर्दिव्यगन्धं मनोहरम् ॥ ३॥ नृपाणां लेपने शस्तं हेमन्तशिशिरादिषु । चन्दनं बहुसौरभ्यं मिलितं पद्मकेसरैः ॥ ४ ॥ उत्पलाभासितं लेपे शरत्काले प्रशस्यते । नवकेसरसम्भूतं कुङ्कुमं कायरञ्जनम् ॥ ५ ॥ सुगन्धितैलसंयुक्तं शीतकालेऽनुलेपनम् । वस्त्रभूषानुसारेण शृङ्गाराङ्गविलेपनम् ॥ ६ ॥ ललाटे बाहुशिखरे कण्ठे वक्षस्यथोदरे । नानागन्धसमोपेतं नानावर्णसमन्वितम् ॥ ७ ॥ विलेपनोपभोगाय क्रियते यद्विलेपनम् । विलेपनोपभोगोऽयं वर्णितः सोमभूभुजा ॥ ८॥
इति विलेपनभोगः ॥५॥
१F झू । २ D क्वा । ३ A ततः। ४ A का । ५ D पिष्ट । ६ D श्रि।
Aho ! Shrutgyanam