________________
मानसोल्लासः।
[अध्यायः ५
गन्धोत्कटं हिमस्पर्श वरिष्ठं तन्निरूपितम् । यच्छेदांद्रक्ततां धत्ते घर्षे पीतत्वमेव च ॥ ९८५ ॥ शोषे शुभ्रत्वमायाति स्वादे तिक्तरसं भवेत् । पुन्नागकेसरैर्युक्तं श्रीखण्डं शशिना युतम् ॥ ९८६ ॥ केतकीमल्लिकोन्मिश्रपाटलीगन्धवासितम् ।। शशाङ्ककरसङ्काशं हिमडिण्डीरपाण्डुरम् ॥ ॥ ९८७ ॥ निदाघे शीतलं लेपं नृपः कुर्यात्समुज्ज्वलम् । श्रीखण्डं तादृशं भव्यं निघृष्टं पेषितं पुनः ॥ ९८८ ॥ मसृणं लेपयेद्गात्रं स्वच्छमच्छं विलेपनम् । काश्मीरदेशसम्भूतं हरिचन्दनकेसरम् ॥ ९८९ ॥ लोहितं तत्समादाय पेषण्या श्लक्ष्णपेषितम् । कटुतैलसमायुक्तं लाक्षारागसमप्रभम् ॥ ९९० ॥ तादृशं कुङ्कुम श्रेष्ठं लेपनार्थ महीभृताम् । कुङ्कुमं लघुसम्मिश्रं घनसारसुधूपितम् ।। ९९१ ॥ कुर्वीत लेपनं रम्यं वर्षाकाले नरेश्वरः । मदतारुण्यसम्पन्नमृगनाभिसमुद्भवा ।। ९९२ ॥ गोलकाकारसंस्थाना किञ्चित्कुङ्कुमपिञ्जरा । मृदिता चिक्कणीभूता द्विगुणेव विलोक्यते ।। ९९३ ॥ दृग्धा याति न भस्मत्वं लसत्सिमिसिमास्वना । स्वादे तिक्ता कटुर्वाऽपि तुलने लघुतां गता ॥ ९९४ ॥ तादृग्विधा वरिष्ठा या कस्तूरी सा नृपोचिता । एवंविधौ समानीय कस्तूरी दिव्यसौरभाम् ॥ ९९५ ॥ पेषण्या पेषयित्वा तां तोयमिश्रां विलेपयेत् । गन्धि(न्ध)मार्जारबीजानि समाहृत्य विनिक्षिपेत् ॥ ९९६ ॥
१ A तन्निरूप्यते । २ D च्छिद्रा । ३ B D पा । ४ A रस । ५ A म । ६ A धा . A नाय्या । ८ Aरी।९ A भा।
Aho! Shrutgyanam