________________
विंशतिः३]
मानसोल्लासः।
८५
मिश्रयित्वा समं कृत्वा ताम्बूलार्थ नियोजयेत् । कस्तूरीशशिकङ्कोल्लजातीफलसुचूर्णकम् ॥ ९७३ ॥ श्लक्ष्णं करम्बकं हृद्यं नानापरिमलोत्कटम् । खदिरकाथचूर्णंतु कस्तुरीक्षोदमिश्रितम् ॥ ९७४ ॥ श्रीखण्डकल्कसंयुक्तं कर्पूररजसान्वितम् । मेलयित्वा समै गैर्गुटिका कल्पिता शुभा ॥ ९७५ ॥ त्रिदोषशमनी कण्ठया दन्तानां च बलावहा । अन्यत्खदिरसारस्य चूर्ण कोष्टाम्लसंयुतम् ॥ ९७६ ॥ जातीफलस्य चूर्णेन मिश्रितं मुखरञ्जनम् । जम्बीरबीजपूरस्य कलिकाभिः समन्वितम् ॥ ९७७ ॥ कर्पूरपूर्व खादेच्च तदनु क्रमुकान्वितम् । इत्थं विविधयोगेन ताम्बूलं पृथिवीक्षिता ॥ ९७८ ॥ यत्स्वाद्यते स ताम्बूलभोगश्चतुरवर्णितः । ताम्बूलभोगः कथितः श्रीसोमेश्वरभूभुजा ॥ ९७९ ॥
इति ताम्बूलभोगः ॥ ४ ॥ विलेपनोपभोगोऽयं कथ्यते भोगिनां प्रियः। अच्छं विलेपनं रम्यमङ्ग-सौख्यप्रदायकम् ॥ ९८० ॥ ततः समाचरेद्भः कान्ताकरमनोहरम् । चन्दनागरुकपूरकस्तूरीकुङ्कुमान्वितम् ॥ ९८१ ॥ सुरभीकेसरोन्मिश्रग्रन्थिपर्णसमायुतम् । जातीतिफलोपेतं सुश्लक्ष्णं भूरि धूपितम् ॥ ९८२ ॥ वसन्ते लेपनं कुर्याद्यक्षकर्दममुत्तमम् । कक्षाभागे कर्णसन्धौ नाभौ वंक्षणयोरपि ॥ ९८३ ॥ स्वेदगन्धंविनाशार्थं सान्ध्याख्यं लेपमाचरेत् ।
चन्दनस्य तरोर्मूलं ग्रन्थिकोटक(र)कर्परम् ॥ ९८४ ॥ १. रब । २ F ण्डं ! ३ A लि । ४ Fषः। ५ F त । ६ A व । ७ Aन्धि ! ८ B साध्या। ९ B DF ख ।
Aho! Shrutgyanam