________________
विंशतिः३]
मानसोल्लासः। तान्यप्यपनयेयुस्ताः सुखोष्णैः सलिलैः पुनः । वङ्गचोलकलिङ्गान्ध्रमलयक्षेत्रजातया ।। ९५० ॥ धूपवासितयात्यर्थं कृतालेपं हरिद्रया । ईषच्छीतेन तोयेन रागिण्यो रागहेतवः ॥९५१ ॥ स्नपयेयुर्महीपालं स्नानभोग इतीरितः । निर्वत्यैवं नृपः स्नानं परीधायाङ्गमार्जनम् ॥ ९५२ ॥ सितं सुधौतं वसनं धृतमा परित्यजेत् । भूलोकमल्लदेवेन स्नानभोग उदाहृतः ।। ९५३ ॥
इति स्नानविधिः ( भोगः ) ॥२॥ इदानीं पादुकाभोगः कथ्यते ललितक्रमः । श्रीपर्णीदारुघटिते हरिचन्दननिर्मिते ॥ ९५४ ॥ गिरिमल्लीसमुद्भूते स्यन्दनद्रुभकल्पिते । मयूरपिच्छगुञ्जादि(भिः) समन्तात्परिशोभिते ॥ ९५५ ॥ चर्मणा निर्मिते वापि नानावर्णसुरञ्जिते । गजदन्तसमुद्भूते सुवर्णरचनान्विते ॥ ९५६ ॥ विचित्रे सुदृढे श्लक्ष्णे शिजाने सुमनोहरे । लघुच्छत्रकृताधारे सुस्पर्श पादुके समे ॥ ९५७ ॥ अध्यास्ते यन्महीपालः पादुकाभोग इष्यते । ईरितः पादुकाभोगः सोमेश्वरमहीभुजा ॥ ९५८ ॥
इति पादुकाभोगः ॥ ३ ॥ इदानीमुत्तमो भोगस्ताम्बूलस्य निगद्यते । स्नानगेहादथागम्य प्रविश्य सुखमन्दिरम् ॥ ९५९ ॥ ताम्बूलभोगमन्विच्छंस्ताम्बूलस्याधिकारिणम् । समाहूय महीपालस्ताम्बूलास्वादनं चरेत् ॥ ९६० ॥
१D तम । २ F य । ३ A त । ४ A ण्यौ। ५ A F निर्वत्यैवं । ६A लिखि। . F स्पंदन । Fथा A पा। ९F शंपा। १.A भोगा। ११ A दुपा । १२ Dशेत ।
Aho ! Shrutgyanam