________________
७८
मानसोल्लासः।
[अध्यायः १
मस्तके वंशपृष्ठे च सूत्रमूर्ध्व प्रकल्पयेत् । वायुकुम्भस्य शीर्षस्य सन्धौ पिप्पलिदेशतः ॥ ८९१ ॥ पेचके च विधातव्यं सूत्रमेतद्वितीयकम् । वायुकुम्भस्य मध्ये च नेत्रकर्णदलाग्रतः ॥ ८९२ ॥ पेचकस्याप्यधोभागे सूत्र कार्य तृतीयकम् । मुखमध्ये मुक्कदेशे पुच्छमस्तकसङ्गतम् ॥ ८९३ ॥ चतुर्थ कल्पयेत्सूत्रं चित्रकल्पेन कोविदः। प्रतिमानात्प्रवेष्टाच्च कण्ठाच्च गुदसङ्गतम् ॥ ८९४ ॥ पञ्चमं रचयेत्सूत्रं तिर्यक्सूत्रविशारदः । दन्ताग्रात्वत्सदेशाच्च कक्षाभागात्समागतम् ॥ ८९५ ॥ षष्ठं सूत्रं विधातव्यं चित्रलेखनकोविदः । पञ्चतालं भवेद्गात्रं जठरं पञ्चतालकम् ।। ८९६ ॥ चतुस्तालं तथा प्रोक्तमपरं चित्रवेदिभिः। मुख्यं च (खस्य) त्रिगुणं दैर्ध्य कर्णात्पुच्छावधि स्थितम् ।। ८९७ ॥ जठरेण समं गात्रं तालहीनं ततोऽपरम् । एतल्लक्षणमुद्दिष्टं सूत्रमानानुसारतः ॥ ८९८ ॥ अनेनैव प्रमाणेन लेखनीया गजाकृतिः।
इति गजचित्रम् । असङ्ख्यातानि सत्त्वानि शक्यन्ते नैव भाषितुम् ॥ ८९९ ॥ तत्तद्रूपानुसारेण लेखनीयानि कोविदैः। सादृश्यं लिख्यते यत्तु दर्पणे प्रतिबिम्बवत् ॥ ९०० ॥ तच्चित्रं विद्धमित्याहुर्विश्वकर्मादयो बुधाः । आकस्मिकं लिखामीति यदनुद्दिश्य लिख्यते ॥ ९०१ ।।
१D कल्पन B कर्मणि । २ A नं। ३ A तः । ४ A दः। ५ A गम् । ६ D चित्रके । ७A अमुकं वि ।
Aho ! Shrutgyanam