SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विंशतिः३] मानसोल्लासः। ७७ वायुकुम्भस्य शीर्षस्य सन्धेराप्रतिमानतः । पिप्पलीदन्तवेष्टाभ्यां वेष्टितं मुखमीरितम् ॥ ८७८ ॥ त्रिधा विभज्य त्रितालं त्रीन्भागान् परिकल्पयेत् । त्रिधा विभज्य तद्वत्रं त्रितालं परिकल्पयेत् ।। ८७९ ॥ ऋजूनि लम्बप(सूत्राणि विधेयानि त्रयोदश । एकवालविभिन्नानि चित्रकर्मविशारदैः ॥ ८८० ॥ तत्तत्प्रमाणकान्येव तिर्यक्सूत्राणि कारयेत् । एकादशैव तानि स्युः करिणां चित्रकर्मणि ॥ ८८१ ।। विशं शेतं समुद्दिष्टाः कोष्ठास्तत्सूत्रमध्यगाः । तत्र सूत्रेषु वक्ष्यामि प्रदेशान्नागसम्भवान् ॥ ८८२ ॥ लम्बसूत्रं बहिष्ठं यत्तच्छिष्टं प्रतिमानके । निदाने वायुकुम्भाग्रे दन्तमूले द्वितीयकम् ॥ ८८३ ॥ बिन्दुमध्ये मदच्छिद्रं (द्रे) मुक्कदेशे तृतीयकम् । कण्ठे च पिप्पलीदेशे कुम्भप्रान्ते तुरीयकम् ॥ ८८४ ॥ आसने कर्णमध्ये च पुरोनखरपश्चिमे । अंशेन कर्णपूरण (च) नखरं (रे) पश्चिमे तथा ॥ ८८५ ॥ द्वितीये नखरे लग्नं कार्य मूत्रं तु पञ्चमम् । अंश(से)कर्णदलस्याग्रे पश्चान्नग(ख)रपश्चिमे ॥ ८८६ ॥ मूत्रं षष्ठं प्रकुर्वीत मूत्रन्यासविशारदः। मध्यदेशे प्रयुञ्जीत लम्बसूत्रचतुष्टयम् ॥ ८८७ ॥ मूत्राणां दशकं त्वेवं कथितं मूत्रवेदिभिः । पेचैके चाँपराजि(छ)श्च प(पा)श्वात्यनखमध्यगः(गम्) ॥ ८८८ ॥ एकादशं भवेत्सूत्रं द्वादशं जघने स्मृतम् । त्रयोदशं बहिष्टं तु पुच्छमूले सुघट्टितम् ॥ ८८९ ॥ लम्बसूत्रक्रमो ह्येष कुञ्जरस्य निरूपितः । तिर्यक्मूत्राणि वक्ष्यामि सङ्गतानि प्रदेशतः ॥८९० ॥ १ A यु B F यु । २ F त । ३ F वं। ४ B D स्ता। ५ F विंशतं B D शच्छ । ED हिः पृष्ठ तत् । ७A म । ८D ध्य। ९ Dadds this line। १० B आसने। १० तृतीय। १२ सूत्रे । १३ D शैः । १४ D श्चिमं ख । १५ A मो। १६ A पञ्च । १७ D वा । १८ A ध्रस्य । १९ A पाद्यात्यनकगा D पश्चात्ता। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy