________________
विंशतिः ३]
मानसोल्लासः ।
दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् । इति गुरुशुक्रमूर्ति (त) ।
सौरिं नीलसमाभासं गृध्रारूढं चतुर्भुजम् || ८३२ || वरदं बाणसंयुक्तं चापशूलधरं लिखेत् । इति शनिमूर्तिः
सिंहासनगतं राहुं करालवदनं लिखेत् ॥ ८३३ || वरदं खङ्गसंयुक्तं खेटशूलधरं क्रमात् । इति राहुमूर्तिः । धूम्रादिवाहवः सर्वे वरदाश्च गदाधराः ।। ८३४ ।। गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः । इति मूर्तिः ।
ग्रहाः किरीटिनः कार्या नवताप्रमाणतः ।। ८३५ ॥
रत्नकुण्डलकेयूरहाराभरणभूषिताः । चित्रकर्मोपयोगार्थं हयलक्ष्म प्रवक्ष्यते ।। ८३६ ॥ आयामाच्च तथोत्सेधाद्विस्तरात्परिणाहतः । मुखं तालत्रयं प्रोक्तमायामेन प्रमाणितम् ॥ ८३७ ॥ तन्मध्यवर्तिनो वक्ष्ये प्रदेशान्मात्रया मितान् । वर्तुलं मस्तकं कार्य षडङ्गुलमितं बुधैः ॥ ८३८ ॥ अङ्गुलं कर्णमूलान्तदु (मुत्सेधेन व्यवस्थितम् । कर्णमूलात्तथा कर्णौ कार्यावष्टाङ्गलाहि (य) तौ ।। ८३९ ॥
नागवल्लीदलप्रख्यौ चतुरङ्गलविस्तृतौ । कर्णमूलस्य नेत्रस्य मध्यं कार्य नवाङ्गुलम् || ८४० || नेत्रस्य भागे दैर्घ्यं स्यात्सार्धद्व्यङ्गुलविस्तृतम् । भ्रुवौ विस्तारे देर्येण तु पडडुले ।। ८४१ ॥
भ्रुवोर्मध्य प्रदेशस्तु द्वादशाङ्गुलसम्मितः । षडङ्गुलं भवेद्भालं केशान्ते मध्यदेशतः ।। ८४२ ।।
१ F णो । २ D स्त । ३ A तौ । ४ Fलि |
Aho! Shrutgyanam