________________
७
मानसोल्लासः।
[अध्यायः१
अष्टाङ्गुलं ततश्चाधो द्वादशाङ्गुलविस्तृतम् । एकस्तालो भवेदैर्घ्य ललाटस्य प्रमाणतः ॥ ८४३ ॥ नयनाद्गण्डविस्तारः षोडशाङ्गुलसम्मितः । नासावंशश्च(स्य) दैर्ध्य स्याचतुरङ्गुलसम्मितम् ॥ ८४४ ॥ विस्तारस्यङ्गुलः प्रोक्तो नासिका चतुरङ्गुला । नासापुटस्य विस्तारो द्वयङ्गुलः परिकीर्तितः ॥ ८४५ ॥ पुटयोरन्तरं प्रोक्तं मूर्धभागे षडङ्गलम् । एको भागस्त्वधोभागे तत्र रेखात्रयं भवेत् ॥ ८४६ ॥ तस्याधः प्रोथदेशः स्याच्चतुरङ्गुलमायतः। चतुरङ्गुलविस्तारः पीनत्वं चतुरङ्गुलम् ॥ ८४७ ॥ मुखैराजे() पुटस्यापि मध्यं स्याचतुरङ्गुलम् । मुखरेखाबहिभांगे हनुः स्याच्चतुरमुला ॥८४८॥ चिबुकं तत्र कर्तव्यं पञ्चाङ्गुलमितं बुधैः । प्रोथश्च (थाच) सक्कपर्यन्तमास्यरेखा स्वराङ्गुला ॥ ८४९ ॥ मस्तकात्कीकशाखा (खं ) वा चतुस्तालमितं भवेत् । स्यात्केशदेशविस्तारः शीर्षदेशेऽङ्गुलत्रयम् ॥ ८५० ॥ एको भागो भवेन्मध्यं प्रान्ते (न्तो ) मध्यमितो भवेत् । कृतकेसरकः स्कन्धः कर्तव्यः कीकसावधि ॥ ८५१ ॥ कीकसायाँ तथा कार्याः केसरा दैर्यशालिनः। मस्तके च तथा केशी द्वादशाङ्गुलदैध्यकाः ॥ ८५२ ॥ तरङ्गिता घनाः स्निग्धाः श्लक्ष्णाः कार्या मनोहराः । निगालाद्वैत्सपर्यन्तं ग्रीवानलकदीर्घता ॥ ८५३ ॥ तालद्वितयमाख्याता तद्विस्तारोऽङ्गुलत्रयम् । स्कन्धमूलपरीणाहः षड्तालाश्चाङ्गुलद्वयम् ॥ ८५४ ॥
१D विस्तृतः। २ Fरे। ३ A मुखं राजे । ४ A D F का B कीकशाखान्तं । ५ F मम्रा । ६ D धिः। A खांस्त F पां। ८ A सा। ९ A यॆ । १० D शाः द्वा A शाहा । ११ Dर्घि । १२ A कृष्णाः । १३ BD लद्वय ।
Aho ! Shrutgyanam