________________
मानसोल्लासः ।
पादौ तस्य प्रकर्तव्यौ सुमहत्तेजसा वृतौ ।
अनूरुः सारथिः कार्यः प्रतीहारौ च पार्श्वयोः || ८२२ ॥
दण्डपिङ्गलनामानौ खङ्गखेटकधारिणौ । धाता च लेखनीहस्तो जगत्कर्मविलेखकः || ८२३॥
कार्यो भानुसमीपस्थञ्चित्रकर्मविशारदैः ।
इति सूर्यमूर्तिः
चन्द्रश्वित्रे विधातव्यः श्वेतः श्वेताम्बरावृतः || ८२४ ॥
दशश्वेताश्वसंयुक्तमारूढः स्यन्दनं शुभम् । द्विभुजो दक्षिणे पाणौ गदां बिभ्रत्पृषोदम् || ८२५ ॥ वामस्तु वरदो हस्तः शशाङ्कस्य निरूप्यते । इति चन्द्रमूर्तिः ।
धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ॥ ८२६ ॥ चतुर्भुजो मेषगमश्राङ्गारसदृशद्युतिः । दक्षिणं वैर्द्धगं हस्तं वरदं परिकल्पयेत् ॥ ८२७ ॥ ऊर्ध्व (र्ध्व) शक्तिसमायुक्तं वामौ शूलगदाधरौ । इति भौममूर्तिः ।
सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् ॥ ८२८ ॥ पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् । वरदं खङ्गसंयुक्तं खेटकेन समन्वितम् ॥ ८२९ ।। गदया च समायुक्तं बिभ्राणं दोचतुष्टयम् । इति बुधमूर्तिः ।
पीतो देवगुरुर्लेख्यः शुभ्रव भृगुनन्दनः || ८३० ॥ चतुर्भिर्वाहुभिर्युक्तश्चित्रकर्मविशारदैः । arat साक्षत्र कमण्डलुधरौ तथा ।। ८३१ ॥
१ A भानुः । २ B दक्षिणाधोहस्तं । ३ A तूर्ध्वगं ।
Aho! Shrutgyanam
i
अध्यायः R