________________
मानसोल्लासः।
[ अध्यायः दक्षिणे त्वक्षसूत्रं स्यात्करे वामे कमण्डलुम् (लुः)। . स्वाहादेवी तु तत्पार्धे कुङ्कुमेन विलेपिता ॥ ७७९ ॥ अरुणैरम्बरैभव्या लेख्या माणिक्यभूषिता । कुण्डस्थो वा प्रकर्तव्यो हव्यवाहो विचक्षणैः ॥ ७८० ॥ ज्वालाभिः सप्तभिः शीर्षे शोभमानो महाद्युतिः ।
इति अग्निमूर्तिः । पितृराज प्रवक्ष्यामि नीलाञ्जनसमच्छविम् ॥ ७८१ ॥ दण्डपार्श्वधरं दोभ्यो प्रदीप्ताग्निविलोचनम् । महामहिषमारूढं सिंहासनमथापि वा ॥ ७८२ ॥ मृत्युना चित्रगुप्तेन पार्श्वयोरुपशोभितम् । करालैः किङ्करैश्चैव सुरासुरगणैस्तथा ॥ ७८३ ॥ धामभिः पापिभिश्चैव सेव्यमानं निरन्तरम् ।
इति यममूर्तिः। राक्षसेन्द्रं प्रवक्ष्यामि नितं (ति) नैऋतेः (ती) स्थितम् ॥ ७८४ ॥ नरयानसमारूढं रक्षोभिर्बहुभिर्दृतम् । कालमेष (घ) समाभासं खङ्गखेटकधारिणम् ॥ ७८५॥ पीतवस्त्रपरीधानं स्वर्णभूषणभूषितम् ।
इति राक्षसेन्द्रमूर्तिः । जलेशं वर्णयिष्यामि कुन्दशह्वेन्दुसप्रभम् ॥ ७८६ ॥ पाशपङ्कजहस्तं च मकरस्योपरिस्थितम् । शुक्लाम्बरपरीधानं दिव्यरत्नकिरीटिनम् ॥ ७८७ ।। पृथुवक्षस्थलन्यस्ततारहारविभूषितम् ।
इति वरुणमूर्तिः समीरणं प्रवक्ष्यामि धूनं हरिणवाहनम् ॥ ७८८ ॥ १ D अरुणारुणसङ्काशा । २ A षैः । ३ B D त्रि। ४ B नि ।
Aho! Shrutgyanam