SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विंशतिः३] मानसोल्लासः। चित्राम्बरधरं देवं चित्ररत्नविभूषितम् । वरदं दक्षिणं हस्तं वामं युक्तं पताकया ॥ ७८९ ॥ बिभ्राणं कुण्डलोपेतं किरीटवरधारिणम् । इति वायुमूर्तिः हरमित्रं प्रवक्ष्यामि दिव्यहारविभूषितम् ॥ ७९० ॥ किरीटकुण्डलयुतं श्वेताम्बरविराजितम् । . नरयुक्तविमानस्थं गदापाणिं वरप्रदम् ॥ ७९१ ॥ महोदरं महाबाहुं गौरवर्ण मनोहरम् । अष्टाभिर्निधिभिर्युक्तं द्रविणव्यग्रपाणिभिः ॥ ७९२ ॥ समन्ता ह्यफैर्युक्तं चित्रकर्मणि लेखयेत् । इति कुबेरमूर्तिः । ईशानं सम्प्रवक्ष्यामि शरदभ्रसमप्रभम् ॥ ७९३ ॥ शुभ्रं वृषभमारूढं बालेन्दुकृतशेखरम् । जयमङ्गलभूषाढ्यं लोचनत्रयभूषितम् ॥ ७९४ ॥ त्रिशूलपाणिं वरदं व्याघ्रचर्माम्बरावृतम् । फणिकुण्डलभूषाढ्यं नागयज्ञोपवीतिनम् ॥ ७९५ ॥ लिखेदेवंविधं देवं चित्रके चित्रकोविदः । इति ईशानमूर्तिः मातॄणां लक्षणं वक्ष्ये ब्रह्माणी वैष्णवी तथा ॥ ७९६ ॥ माहेश्वरी च कौमारी वाराही वासवी तथा । सप्तमी नारसिंही च तत्तद्रूपायुधैः समाः ॥ ७९७ ॥ तत्तद्वाहनसंयुक्ताः कर्तव्या मातरो बुधैः । वीरेश्वरो विधातव्यो मातॄणामग्रतस्तथा ॥ ७९८ ॥ १० मवि । २ A रश्च । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy