________________
विंशतिः३]
मानसोल्लासः।
अधिज्यकार्मुकं वामे पाशमङ्कुशखेटकम् । घण्टा वा परशुं वापि धारयन्ती समालिखेत् ।। ७६८ ॥ अधस्तान्महिषं तस्याश्छिन्नग्रीवं समालिखेत् । छिन्नस्थान(न) समुत्पन्नं खगखेटकधारिणम् ।। ७६९ ॥ हृदि शूलेन निर्भिन्नं रुधिरारुणविग्रहम् । प्रबद्धं नागपाशेन भृकुटीभीषणेक्षणम् ॥ ७७० ॥ नाभेरूज़ विनिष्क्रान्तं दारुणं पुरुषं लिखेत् । दक्षिणं चरणं देव्याः सिंहपृष्ठे प्रतिष्ठितम् ॥ ७७१ ।। उत्तुङ्गमश्चितं वामं महिषस्योपरिस्थितम् ।
इति काली ( कात्यायनी ) मूर्तिः ॥ सुरराजं प्रवक्ष्येऽहमैरावणसमाश्रितम् ॥ ७७२ ॥ किरीटकुण्डलधरं भुजद्वयसमन्वितम् । कुलिशं दक्षिणे पाणौ वामहस्ते तथोत्पलम् ॥ ७७३ ॥ दिव्यरत्नविभूषाढ्यं दिव्यचीनांशुकैयुतम् । छत्रचामरधारिण्यः स्त्रियः पार्थे च कल्पयेत् ॥ ७७४ ॥ सिंहासनस्थमथवा लिखेद्गन्धर्वसंयुतम् ।। इन्द्राणी वामतस्तस्य लिखेदुत्पलधारिणीम् ॥ ७७५ ॥ दिव्यशृङ्गारसंयुक्तामिन्द्रवत्रावलोकिनीम् ।
इति इन्द्रमूर्तिः ॥ वन्हे: स्वरूपं वक्ष्यामि शुद्धकाञ्चनसप्रभम् ॥ ७७६ ॥ अर्धचन्द्रासनगतं रक्तवस्त्रविराजितम् । लोहितं च प्रकुर्वीत बालार्कसमतेजसम् ।। ७७७ ।। युक्तं यज्ञोपवीतेन लम्बकूर्चेन शोभितम् । मेषपृष्ठस्थितं देवं भुजद्वयसमन्वितम् ॥ ७७८ ॥
१A धृ ? । २ A ष्यं D ज्यं । ३ D दानवं । ४ D दारुणं । ५ DF ण्यौ ।६ DF यौ। Dचा।८D नव । ९D]प। १० F ष्टि ।
Aho ! Shrutgyanam