SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्यायः शक्तिं पाशमासं बाणं शूलं चेत्युत्तरोत्तरम् । पताका कार्मुकं कुर्यात्वेटकं मुष्टिबन्धनम् ॥ ७५७ ।। प्रसृतां तर्जनी पाणौ ताम्रचूडं च वामतः । अभयो वरदो वैको द्वितीयः खगभृत्करः ॥ ७५८ ॥ दक्षिणे वामतः शक्ति(:) पाशो वा कुक्कुटोऽपि वा । द्विभुजस्य कुमारस्य कर(रे)शक्तिर्विधीयते ॥ ७५९ ॥ दक्षिणे वामतः कार्यस्ताम्रचूडधरः करः। इति स्वामिकार्तिकलक्षणम् । . विनायकस्य वक्ष्यामि मूर्ति चित्रोपयोगिनीम् ॥ ७६० ॥ गजवक्रां त्रिनेत्रां तां चतुर्बाहुं महोदराम् । भग्नैकदन्तसंयुक्तां स्तब्धकर्णा समालिखेत् ॥ ७६१ ॥ नागोपवीतिनी पुष्टां पीनस्कन्धाङ्गिपाणिकॉम् । भग्नदन्तधरश्चैकमन्यमुत्पलसंयुतम् ॥ ७६२ ॥ दक्षिणे विलिखेद्वामौ सकुठारसलड्डुको । पार्थे सिद्धिकबुद्धिभ्यामधस्तादाखुनान्वित( ता )म् ॥ ७६३ ॥ आसीन( ना )मुत्तमे पीठे सिन्दूरारुणविग्रह(हा)म् । इति गणेशमूर्तिः। वक्ष्ये कात्यायनी देवी शिवनारायणात्मिकाम् ॥ ७६४ ॥ बाहुभिर्दशभिर्युक्तां जटामुकुटमण्डिताम् । लोचनत्रयसंयुक्तामधेन्दुकृतशेखराम् ॥ ७६५ ॥ अतसीपुष्पसच्छायामिन्दीवरदलेक्षणाम् । पीनोन्नतकुचाभोगां तनुमध्येन शोभिताम् ।। ७६६ ।। त्रिभङ्स्थिानसंस्थानां महिषासुरमर्दिनीम् । त्रिशूलं दक्षिणे खड्गं चक्रं शक्तिं वरं तथा ॥ ७६७ ॥ A B D तमग्रतः । २ A उ। ३ A वरदो चैको । ४ A णो । ५ D हु। ६ D नं । - Dटं। CD कम् । A ता । १. A ङ्गी । ११ F। १२ Dक्तिधरं । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy