________________
विंशतिः३]
मानसोल्लासः। उत्पलं वामहस्तेन दर्पणं वापि विभ्रतीम् । जयां च विजयां पार्चे गणेशं षण्मुखं लिखेत् ॥ ७४५ ॥ उमामहेश्वरस्यैवं स्वरूपं परिकीर्तितम् । देवं हरिहरं वक्ष्ये सर्वपातकनाशनम् ॥ ७४६ ॥ दक्षिणे शङ्करस्यार्धमध विष्णोश्च वामतः । बालेन्दुभूषितः कार्यो जटाभारस्तु दक्षिणे ॥ ७४७॥ नानारत्नमयं दिव्यं किरीटं वामभागतः । दक्षिणं सर्पराजेन भूषितं कर्णमालिखेत् ॥ ७४८ ॥ मकराकारकं दिव्यं कुण्डलं वामकर्णतः । वरदो दक्षिणो हस्तो द्वितीयः शूलभृत्तथा ॥ ७४९ ॥ कर्तव्यो वामभागे तु शङ्खचक्रधरौ करौ । दक्षिणं वसनं कार्य द्वीपिचर्ममयं शुभम् ॥ ७५० ॥ पीताम्बरमयं भव्यं जघनं सव्यमालिखेत । वामः पादः प्रकर्तव्यो नानारत्नविभूषितः ॥ ७५१ ॥ दक्षिणाधिः प्रकर्तव्यो भुजगेन्द्रेण वेष्टितः । सुधांशुधवलः कार्यः शिवभागो विचक्षणैः ॥ ७५२ ॥ अतसीपुष्पसङ्काशो विष्णुभागो विरच्यते । विलिखेत् षण्मुखं देवं मयूरवरवाहनम् ॥ ७५३ ॥ तरुणादित्यसङ्काशं बालाभरणभूषितम् । स्थानीये खेटके वापि कुमारो लिख्यते यदा ॥ ७५४ ॥ भुजान्द्वादश कुर्वात खेटके चतुरो भुजान् । ग्रामे धैने द्विबाहुः स्याल्लेखनीयो विचक्षणैः॥ ७५५ ॥ वक्त्रैः षड्डिरुपेतो वा मुखेनैकेन वा युतः। . दक्षिणं निम्नगं पाणिं वरदं चाऽभयं लिखेत् ॥ ७५६ ॥
१ A दि । २ A द्विबाहुःस्याल्लेख्यः । ३ F ग्रामे द्विबाहुलेख्यास्यात् । A बुध्र ।।
Aho! Shrutgyanam