________________
80
मानसोल्लासः ।
त्रिशूल डमरुं चैव वरदं चाक्षिमालिकाम् । चतुर्बाहोर्महेशस्य शान्तमूर्तेः समालिखेत् ॥ ७३२ ॥ अन्यास्तु दशहस्तस्य भवेयुर्हेतयः क्रमात् । अष्टबाहोर्महेशस्य न स्यातां खङ्गखेटकौ ।। ७३३ ।। अर्धनारीश्वरो देवः कथ्यते लक्षणान्वितः । दक्षिणं पुरुषाकारं वामं योषिन्मयं वपुः ।। ७३४ ॥ त्रिशूलं दक्षिणे हस्ते वामहस्ते च दर्पणम् । उत्पलं वा प्रकुर्वीत केयूरवलयान्वितम् ।। ७३५ ।। दक्षिणे श्रवणे नागं वामे कर्णे तु कुण्डलम् । जटाभारो दक्षिणे स्यादर्ध(थ) चन्द्रार्धभूषितः ॥ ७३६ | कुन्तले कबरीभारं वामभागे तु विन्यसेत् । ललाटे लोचनस्यार्धं तिलकार्थे प्रकल्पयेत् ॥ ७३७ ॥ विशालं दक्षिण वक्षो वामं पीनपयोधरम् । द्वीपिचर्मपरीधानं कटिसूत्रत्रयान्वितम् ॥ ७३८ ॥ देवस्य दक्षिणं पादं पद्मस्योपरि कल्पयेत् । तस्योर्ध्वं च तथा वामं नूपुरालङ्कृतं लिखेत् ।। ७३९ । नरनारीमयं देवमेवं चित्रे प्रकल्पयेत् । उमामहेश्वरस्यापि स्वरूपं वर्ण्यतेऽधुना ॥ ७४० ॥ द्विभुजं वा चतुर्बाहुं जटामण्डलमण्डितम् । त्रिनेत्रं पार्वतीस्कन्धविन्यस्तैककरं कुचे || ७४१ ॥ करं द्वितीयं सव्ये तु शूलमुत्पलकं लिखेत् । वामं पद्मासनं पादं दक्षिणं किञ्चिदश्चितम् ॥ ७४२ ॥
एवमर्धेन्दुसंस्थाने निविष्टं शङ्करं लिखेत् । वामोरुवर्तिनीं देवीं हर वक्त्रावलोकिनीम् ॥ ७४३ ॥
[ अध्यायः १
स्पृशन्तीं देवदेवस्य वामांसं लीलया लिखेत् । दक्षिणैः करजैः स्कन्धं स्पृशन्तीं कुक्षिमेव वा ॥ ७४४ ॥
१ B. F. ण्ड । २ A लात् । ३ F । ४ D मे । ५ A स्यार्धे ६D वं सर्वदा । ७A त्ये B
Aho! Shrutgyanam