________________
विंशतिः३]
मानसोल्लासः।
स्फिङ्मण्डलगता रेखा बाह्या पश्चाङ्गुला भवेत् । यवतो वर्धते यावत् कल्पितं नाभिसूत्रकम् ॥ ६७१ ॥ कूपरस्य तथा नाभेरन्तरं सार्धगोलकम् । भुजं विना शिरोदेशान्निर्गतं जठरं बहिः ।। ६७२ ॥ हीयते च ततश्चाधो मणिबन्धावधि क्रमात् । बस्तिसूत्रप्रदेशे तु यवषट्कमुदाहृतम् ॥ ६७३ ॥ ततो वंक्षणदेशः स्यादङ्गुलं परिकल्पितम्(तः) । ऊरुमूलं ततः कुर्यात्करादङ्गुलतो बहिः।। ६७४ ।। कनिष्ठा१लिसंल्लग्ना सक्थिरेखा विरच्यते । तर्जनी दृश्यते चार्धमङ्गुलाग्रेण सङ्गता ॥ ६७५ ॥ तियक्तलस्य विस्तारो(रं) भागेनैकेन कल्पयेत् । पूर्वभागस्फिजोले(ले)खा किञ्चिद्वका प्रकल्प(लय)ते ॥ ६७६ ॥ गुदात्सार्धाङ्खला सा तु प्रदृश्या चित्रकर्मणि । समग्रो दृश्यते चाशः पूर्वभागसमाश्रितः ॥ ६७७ ॥ त्रयोदशाकुलायामं पदं तस्य प्रदृश्यते । परभागस्थितं सथि सार्धभाँग प्रदृश्यते ॥ ६७८ ॥ जानुभागो हि भागेन जङ्घामूलं च भागतः । इन्द्रबस्तिप्रदेशस्य दृश्यं स्यादङ्गुलत्रयम् ॥ ६७९ ॥ कूर्चिकां च ततः पाणिः प्रत्येकं व्यङ्गुल मतम् । पूर्वपार्दैगता पाणिभूमिसूत्रेण घट्टिता ॥ ६८० ॥ भूमिसूत्रं परित्यज्य कनिष्ठा मात्रया भवेत् । भृमिसूत्रं परित्यज्य परपाणिर्विधीयते ॥ ६८१ ॥ सार्धगोलकमानेन चित्रकर्मविशारदः। पूर्वाङ्गिपृष्ठदेशे च परपादः प्रदृश्यते ॥ ६८२ ॥
.१ वृष ? । २ P वि । ३ D क । ४ D ग्रा! ५ D ता । ६ B. D वस्ति । ७ Dगः । ८ B:D ईकू । ९ F ता । १० B. F मतो। ११ D दे ग । १२ D शं ।
Aho! Shrutgyanam