________________
मानसोल्लासः ।
यवद्वयप्रमाणेन श्वेतभागच ( अ ) तुर्यवम् । ब्रह्मसूत्रात्रे भागे बुध ( न ) वर्त्म चतुर्यवम् ।। ६५९ ॥ 'परे भागे प्रदृश्यःस्यात्कपोलच चतुर्यवः । अर्धमात्रात्कपोलात्तु नासामध्यं प्रकल्प्यते ।। ६६० ।।
पक्षसूत्राद्विनिष्क्रान्तं नासाग्रं तु चतुर्थवम् । ओष्ट (ष्ठ) तत्र प्रकर्तव्यौ तिर्यगङ्गुलविस्तृतौ ॥ ६६१ ॥ घटित पक्षसूत्रेण प्रकर्तव्यौ विचक्षणैः । ब्रह्मसूत्रात्रे भागे चिबुकं द्वियवं भवेत् ।। ६६२ ॥
घटितं ब्रह्मसूत्रेण हनुचक्रं प्रकल्पयेत् । हनुचक्रात्तथा ग्रीवा भागेनार्धेन कल्प (ल्प्य ) ते ।। ६६३ ॥
tara विस्तारो भागद्वितयसम्मितः । ग्रीवायाश्च वहिर्दश्यः स्कन्धदेशस्तथाङ्गुलम् || ६६४ ॥
ब्रह्मसूत्रात्रे भागे बाहुमूलं त्रिमात्रकम् । पञ्चमात्रं पुरोभागे कक्षामूलं विधीयते ।। ६६५ ॥
द्विकक्षामूलयोर्मध्ये भवेदेकादशाङ्गुलम् | उक्तादन्यः पुरो बाहुः कक्षामूलानु (तु) भागतः ॥ ६६६ ॥ कूर्परस्यान्तरी रेखा श्रोणिदेशे निगद्यते ।
तस्याश्च मध्यरेखाया अन्तरं संव्यवस्थितम् || ६६७ ॥ चापाकारं प्रकर्तव्यं तत्सार्धाङ्गुलविस्तृति: ( ति ) । बाहोस्तस्य बहिर्लेखा बस्तिशीर्षेण घट्टिता ॥ ६६८ ॥
परपादस्फिजा गूढः प्रकोष्ठो नैव दृश्यते । पूर्वेण पक्षसूत्रेण पृष्ठपार्श्व सुघट्टितम् ॥ ६६९ ॥
तेनैव घटित रेखा स्फिजोरन्तरवर्तिनी । बस्तिशीर्षगतं सूत्रं गुदराजेर्द्विगोलकम् ।। ६७० ॥
[ अध्यायः १
3 Fomits this line २ AB३ A ऊध्व । ४ A अ । ५ A क्षि । ६ A ल्पते । ७ A रो • F गो । D न घढ्यते । १० D ट्टि । ११ B जौं !
Aho! Shrutgyanam