________________
विशतिः३]
मानसोल्लासः। एकादशाङ्गुलं दैर्ध्य पूर्वपादस्य कल्प्यते । घटिता भूमिसूत्रेण पाणिस्तस्मिन् परिस्फुटम् ॥ ६४७ ॥ सार्धमङ्गुलमुत्सृज्य लिख्यते तु कनिष्ठिका । अङ्गुल्यश्च तथाङ्गुष्ठो लिख्यन्ते पूर्ववत्स्फुटम् ॥ ६४८ ॥ प्रदेशिनी तथाऽङ्गुष्ठो मध्यमाग्रं तथैव च । दृश्यते परपादस्य पूर्वेणान्यत्मलुप्यते ॥ ६४९ ॥ परपादगता पाणिः समग्रो दृश्यते पुनः । भूमिसूत्रात्परित्यज्य मानतः सार्धमङ्गुलम् ॥ ६५० ।। ईक्साचिगता वृत्तिः कथिता लक्षणान्विता । तिर्यसूत्रप्रदेशेन लम्बसूत्रक्रमेण च ॥ ६५१ ॥ द्वयर्धाशिवत्प्रकर्तव्यं तथा च लम्बसूत्रकम् । ब्रह्मसूत्रात्परे भागे रुद्रमात्राभिरीरितम् ॥ ६५२ ॥ ब्रह्मसूत्रात्परे भागे तालमडुलतो भवेत् । पुरोभागे ललाटं तु साधमङ्गुलतो भवेत् ॥ ६५३॥ कलामात्रा प्रदृश्या स्या वोर्लेखा सुनिश्चितम् । अङ्गुलं तु परे भागे पुरोभागे तथाङ्गुलम् ॥ ६५४ ॥ धूपुच्छतः कर्णमूलं पञ्चाङ्गुलमुदीरितम् । कलामात्रो भवेत्कर्णस्तियङ्मानेन निश्चितम् ॥ ६५५ ॥ अर्धपाली परा दृश्या पुरस्था मात्रया मिता । पालीदेत्कृिकाटी स्याद्भागेनैकेन कल्पिता ॥ ६५६ ॥ ब्रह्मसूत्रात्परेभागे नेत्रवम चतुर्यवम् । अर्धाङ्गुलं परित्यज्य पक्षसूत्रं प्रतिष्ठितम् ॥ ६५७ ।। पक्षसूत्रे तु संलग्नं पक्ष्म कार्य विचक्षणैः । ब्रह्मसूत्रात्परे भागे दृश्यते कृष्णमण्डलम् ॥ ६५८ ॥
१A ले । २ Fख ! ३ A ले। ४ Fष्ट । ५A यां । ६ D ग्रो। ७ D तत् । F लम्ब । SA य F यद्भू । १० D शक । ११ A क्ष । १२ D. Fथें ।
.
Aho! Shrutgyanam