________________
मानसोलासः।
[ अध्यायः
nmAAAAAAAAAAA
जठरं श्रोणिदेशश्च सक्थ्यध न च दृश्यते । तद्बाहुदेशमध्यस्तु रचनीयः षडङ्गुलः ।। ६३५ ॥ बाहुदेशस्य मध्यस्याप्यन्तरं स्याद्दशाङ्गुलम् । इतरस्य तथा बाहोर्मध्यदेशस्य मध्यगः ( गम् ) ॥ ६३६ ॥ अंङ्गुलं दृश्यते व्योम यावच्छोणितटं भवेत् । प्रकोष्ठकॅस्य मध्यस्याप्यन्तरं स्याद्दशाङ्गुलम् ।। ६३७ ॥ प्रकोष्ठस्तस्य बाहोश्च काञ्चीदेशेन गृहितः । अधोभागे(गो) न दृश्येत प्रकोष्ठस्य करावधेः ॥ ६३८ ॥ दृश्या(श्य)बाह्वन्तरच्छा(स्था)या रेखायाः श्रोणिमध्यतः । अन्तरं रचनीयं स्यादिक्सङ्खचैरङ्गुलैः स्फुटम् ॥ ६३९ ॥ काञ्चीसूत्रप्रदेशस्य दृश्यबाहोर्यदन्तरम् । गदितं रविमात्राभिश्चित्रशास्त्रानुसारतः ॥ ६४० ॥ बस्तिमस्तकदेशस्य दृश्या(श्य)वाहोर्यदन्तरम् । तिथिमात्राभिरुद्दिष्टं तिर्यकसूत्रं(त्र) प्रमाणतः ॥ ६४१ ॥ दृश्यस्य मणिबन्धस्य गुदस्य च यदन्तरम् । दशाङ्गुलं विधेयं तचित्रव्यापारकोविदैः ॥ ६४२ ॥ पूर्ववच्च स्फिजोर्लेखा कर्तव्या सुविचक्षणैः । कलामा तथा लुप्ता स्फिजोर्लेखा परस्थिता ॥ ६४३ ॥ त्रिभागलोपितं सक्थि पूर्वसक्थ्युपरिस्थितम् । समग्रो दृश्यते चाङ्ग्रिः पुरोभागसमाश्रितः ॥ ६४४ ॥ ऊरुमूलं तथा जानु जङ्घाकाण्डं तथैव च । त्रिभिर्भागैः प्रदृश्येत पराजिन्समवस्थितम् ॥ ६४५ ॥ पूर्वाचिकूर्चदेशस्य पराने खसन्धितः। समग्रं दृश्यते बाह्यमङ्गुलार्ध विचक्षणैः ॥ ६४६ ॥
१ A च्छा । २ A व । ३ F स्त। ४ B. F छ । ५ A स्तस्य । ६ A या B य । ७ A श्यं ८Aर। ९ A ले। १. B क्थिपरिस्थितम् ।
Aho! Shrutgyanam