________________
५४
मानसोल्लासः ।
क्रमशो वर्धमानं तु यावत्सार्धाङ्गलावधि | जङ्गयोरन्तरं तद्वत्सार्धमङ्गुलमिष्यते ।। ६११ ॥ इन्द्रवस्तिप्रदेशे तु किञ्चिदूनं प्रकल्पयेत् । लुप्यते परपादेऽस्मिन्नङ्गुष्ठः पादशाखिकः ।। ६१२ ।। अधस्ताद्भूमिसूत्रस्य पाणिः पूर्वपदाश्रिता । यवप्रमाणिका दृश्या वृत्तत्वाच्चित्रकर्माणि ॥ ६१३ ॥ अनुष्ठमूलदेशस्य नव (ख) सन्धेर्यदन्तरम् । तत्कलामात्रकं कार्यं चित्रकर्मविशारदैः ॥ ६१४ ॥
भूमिसूत्रात्तथा चोर्ध्वं कनिष्ठा कलया स्मृता । सर्वाङ्गुल्यस्तथाऽङ्गुष्ठो दृश्यन्ते पूर्वपादगाः ।। ६१५ ॥
भूमिसूत्रं परित्यज्य पराङ्घ्रः पाणिमण्डलम् । अडलेन विधातव्यो भित्तिचित्रे ह्ययं क्रमः
६१६ ॥
एवमर्धर्जुका वृत्तिः समग्रा परिकीर्तिता । क्षयवृद्धिप्रदेशैस्तु सूत्रं मानात्सुनिश्चितम् ॥ ६१७ ||
साचिस्थानगता वृत्तिरिदानीं परिकीर्त्यते । सूत्रत्रितयभेदेन पूर्वापरविभागतः ॥ ६१८ ॥ एतासां विगतं स्थाने पक्षसूत्रं विधीयते । तद्वत्तद्वृत्तिके कार्य सूत्रत्रितयपातनम् ॥ ६१९ ॥
ब्रह्मसूत्रात्रे भागे केशान्तंश्चाङ्गुलद्वये । दशाङ्गुलं" शिरःपृष्ठं पूर्वभागे विधीयते ।। ६२० ||
परे भागे प्रदृश्यं स्याद्भयुगं मात्रया मितम् । भ्रूपुच्छाच्चैव कर्णाग्रं भागेनैकेन कल्प (ल्प्यते ।। ६२१ ॥
सार्धमङ्गलमुद्दिष्टा तिर्यकर्णस्य विस्तृतिः । ततो बहिः प्रदृश्यं स्यात्कर्णपृष्ठं चतुर्यवम् ॥ ६२२ ॥
[ अध्यायः १
१ D रे । २ A ते । ३ A काः । ४ Dण । ५ D वा । ६ A र्ध्व । ७ A ड्ङ्गैः । ८ D श ।
९ A सूत्र । १० D च गते । ११ B F ले । १ २D, F र ।
Aho! Shrutgyanam