________________
विंशतिः ३]
मानसोल्लासः ।
ऋजुके मस्तके सूत्रं तद्वदृश्यं प्रकल्पयेत् ।
विस्तार इच्छया चैव चूचूभागेति (पि) तद्दिवम् १ ॥ ५९८ ॥
ब्रह्मसूत्रात्परे भागे कर्णपाली च दृश्यते । पूर्वभागे युतः कर्ण ऋजुवृत्तौ यथा तथा ।। ५९९ ।।
केशान्तमध्यगात्सूत्रात्परि(रे) भागे त्रिमात्रिकः । चलास्थिहनुविस्तारः पूर्वाङ्गे प्राङ्कुलो भवेत् || ६०० ।। ब्रह्मसूत्रात्रे भागे ग्रीवा गोलकसम्मिता ।
डडुला भवेत्पूर्वे विस्तारेण निरूपिता ॥ ६०१ ॥ ब्रह्मसूत्रात्परे भागे कक्षामूलं दशाङ्गुलम् । तालमानं भवेत्पूर्वे कक्षामूलं तु निश्चितम् ।। ६०२ ।। कक्षामूलात्परे भागे रेखा बाहस्तु बाह्यगा । षडङ्गुला भवेत्तिर्यग् विस्तारेण प्रमाणतः ।। ६०३ ॥ पुरस्तात्कक्षमूला रेखा बाह्या तु बाह्यगी । सप्तमात्रा भवेत्तिर्यग् विस्तारेण सुनिश्चिता || ६०४ || ब्रह्मसूत्रात्परे भागे पूर्ववद्धीयते क्रमात् । श्रोणी काञ्चीप्रदेशश्च बस्तिदेशस्तथैव च ।। ६०५ ॥
ब्रह्मसूत्रात्परे भागे स्फिग्रेखा नचन्द्रवत् । पूर्वभागस्फिजा लुप्तं लेखार्धं परभागिकम् || ६०६ ॥
ब्रह्मसूत्रात्रे भागे सक्थि दृश्यं दशाङ्गुलम् । पूर्वभागप्रदेश: (गे प्रदृश्यः) स्यात्क (दू ) रुदेशस्तु मात्रिकः ॥ ६०७ ॥ परे तु मध्यदेशस्तु परभागे द्विभागिकः । पूर्वभागे
यः(श्यं स्यात्सार्धमङ्गुलकं स्फुटम् ॥ ६०८ ||
पराङ्के ब्रह्मसूत्रस्य पुरोभागः प्रदृश्यते । अर्धाङ्गुलप्रमाणेन यावत्तलकसङ्गमः ॥ ६०९ ॥ समग्रं दृश्यते सक्थि पूर्वपादस्य सङ्गतम् । अधस्ताद्वैरुमध्यस्य व्योम जानुव्यवस्थितम् ॥ ६१० ॥
५३
१ D या । २ B. D ख । ३ A का । ४ B. F ग । ५ B. F देशः । ६ रा । ७A द्
Aho! Shrutgyanam