________________
विंशतिः३]
मानसोल्लासः।
५१
पताकासन्निवेशेन लिख्यते करपल्लवः । चतुदेशाङ्गुलं मध्यं भुजस्य जठरस्य च ।। ५७३ ॥ दृश्यते केवलं लिङ्गं मुष्कमूलं च दृश्यते । ऊरु जा(जर्जा)नु च जवा च लिख्यते ख्यातमानतः॥ ५७४ ॥ चतुर्दशाङ्गुलं दैर्ध्य पादयोः परिलिख्यते । षडङ्गुलस्तु विस्तारः पूर्वपादस्तु(स्य) लिख्यते ॥ ५७५ ॥ पूर्वपादस्य पृष्ठे तु द्यङ्गुलो दृश्यते परम्(रः) । अङ्गुष्ठो दृश्यते तत्र तत्परा च प्रदेशिनी ॥ ५७६ ॥ इतरा नैव दृश्यन्ते परभागाङ्घिसंश्रिताः । एवं लक्षणमुद्दिष्टं भित्तिकस्य यथाक्रमम् ॥ ५७७ ॥ ऋज्वधर्जुकेसाचीनां द्यर्धाक्षे भित्तिकस्य च । सूत्रतो लक्षणं प्रोक्तं समयं(ग्रं) सोमभूभुजा ।। ५७८ ॥ चतुष्पकारभित्तीनां वृत्तीनां वच्मि लक्षणम् । सूत्रतो मानतश्चापि प्रदेशानां विनिर्णयात् ॥ ५७९ ॥ ऋजुकेऽर्धर्जुके साचीस्थाने द्यर्धाक्षिसंज्ञके । पक्षसूत्रे तथा प्रोक्ते परावृत्तिष्ठते त(तस्त)था ॥ ५८० ॥ शिखाकृकाटिकामध्या(त्) पृष्ठवंशा(त् )स्फिगैन्तरात् । निर्गत्य पाणिमध्ये तु ब्रह्मसूत्रं प्रतिष्ठितम् ॥ ५८१ ॥ तिर्यकर्णागतं(तात्) सूत्रा(त) शिरश्चन्द्रार्धसन्निभम् । षडङ्गुलस्तदुत्सेध आयामस्तु दशाङ्गुलः ॥ ५८२ ॥ तस्मात्सूत्रादधोभागे प्रदेशः केशसंयुतः । षडङ्गुलं तस्य दैध्ये विस्तारस्तु दशाङ्गुलः ॥ ५८३॥ कर्णमूलपदेशे तु विस्तारः स्याहिर(घ)ङ्गुलः । शिरोगतप्रदेशे तु विस्तारस्तु षडङ्गुलः ॥ ५८४ ॥ अधस्तात्कर्णरन्ध्रस्य विस्तारो य१लो मतः।
कर्णी सार्धाङ्गुलौ दृश्यौ पाल्यौ चाङ्गुलसम्मिते ॥ ५८५॥ १D ले। २ A र्जुसा। ३ D ज । ४ A कार्णाग्रगां B काणाग्रगां । ५ D ।
Aho! Shrutgyanam