________________
मानसोल्लासः।
[ अध्यायः१
VandanaKAARY
आकारलक्षणं वक्ष्ये प्रमाणेन यथाक्रमम् । अर्धमङ्ग प्रदृश्यं स्याद्भित्तिके तन्न दृश्यते ॥ ५६१ ॥ ललाटाधु भ्रुवोर्लेखा लोचनं श्रवणं तथा । नासापुटस्तथा सा(चा) वाहुरेकस्तथा पुनः ॥ ५६२ ॥ स्फिक्क(क्त)टं सक्थि जङ्घा च दृश्यते पर्दयुग्मकम् । एतदेव प्रदृश्यं स्यादन्यद्भित्तिगतं भवेत् ॥ ५६३ ॥ भाग एको ललाटस्य भ्रूलेखा व्यङ्गुला तथा । शङ्खप्रदेशकस्तिर्यगङ्गुलत्रयसम्मितम् (तः) ॥ ५६४ ॥ अमुलं कूर्चमूलं स्यान्मात्रामात्रं ततः परम् । कथितः पूर्ववत् कर्णः समः परिलिख्यते ॥ ५६५ ॥ कनिनी लुप्यते नेत्रे करवीरो न दृश्यते । पुरतः श्वेतभागोऽपि लुप्यते तत्र भित्तिके ॥ ५६६॥ कृष्णमण्डलकस्याध लुप्यते चित्रलेखने । दृश्यं साधयवद्वन्द्व मेचके मण्डलेऽर्धतः ॥ ५६७ ॥ अपाङ्गश्वेतभागोऽत्र दृश्यते यवपश्चर्कः । कपोलो गण्डदेशश्च सम्पूर्णः परिदृश्यते ॥ ५६८ ॥ नासिकर्धि प्रदृश्येत गोजिकाध तथैव च । कलामात्रे प्रदृश्येते दशनच्छदने उभे ॥ ५६९ ॥ हनुमण्डलमधू च कलामात्रं प्रदृश्यते । ग्रीवा चाष्टाङ्गुला लेख्या चित्रकर्मणि भित्तिके ॥ ५७० ॥ बाहुमूलद्वयस्योर्ध्व हिक्कासूत्रस्य चोपरि । रेखा चापाकृतिर्लेख्या प्रदेशे भुजशीर्षके ॥ ५७१ ॥ हिकायामन्व(मंस)देशस्य विस्तारस्तालमात्रकः । बाहुर्यथोदितः पूर्व तथैव परिलिख्यते ॥ ५७२ ॥
१ B क । २१ । ३ A मे । ४ D ग्रं । ५A श्थे । ६ D कम् । ७ D ले । ८ A । ९ A त । १. B. F. शु। ११ B. मंश, मङ्ग D अंश । १२ A वस्त B र्वत।
Aho ! Shrutgyanam