________________
४.८
मानसोल्लासः ।
ऊर्ध्वपृष्ठे तथा स्कन्धे कूर्परे पापान्ततः । इतरत्पक्षसूत्रं तु क्रमेणैवं विधीयते ॥ ५३७ ॥
ब्रह्मसूत्रात्रे (पुरी) भागे केशान्तस्त्रियवान्तरः । नासामूलस्य सूत्रस्य (तु) यवद्वितयमन्तरम् ।। ५३८ ॥
मानान्तरा गोजी निम्ना सा परिकल्प (ल्प्य ) ते । आस्यमध्यगता रेखा सूत्रान्त (तु) द्वियवान्तरम् ।। ५३९ ॥
अन्तरं ब्रह्मसूत्रस्य चिबुकस्यैकमङ्गुलम् | हनुचक्रं ततो लेख्यं सूत्रात्पञ्चयवान्तरम् ॥ ५४० ॥
द्व्यङ्गुलं हनुचक्रं स्याद्वीवासन्धिस्तु मात्रया । हिक्का भागान्तरा कार्या ब्रह्मसूत्रानुसारतः || ५४१ ॥ घटिते ब्रह्मसूत्रेण स्तना (न) रोहितचूचुके । मूलमग्रं च लिङ्गस्य भवेत्सूत्रेण घट्टितम् ॥ ५४२ ॥ ऊरुदेश तथा जानुं जंङ्घा ( ङ्घां ) सन्त्यज्य गच्छति । अङ्गुष्ठयमूलं (ले) च सूत्रं तद्घटितं भवेत् ॥ ५४३ ॥
अर्न्यपक्षस्थिते सूत्रे” मूर्धपृष्ठं तु घट्टितम् । सार्धालान्तरं कार्य मस्तकाग्रं विचक्षणैः || ५४४ ॥ साङ्गलान्तरस्तद्वत् केशान्तः पश्चिमो भवेत् । स्कन्धदेशः प्रकर्तव्यः पक्षसूत्रेण घट्टितः ॥ ५४५ ॥ पक्षसूत्रस्य कूर्चस्य मध्यं द्व्यङ्गुलसम्मितम् । लम्बसूत्रगतश्चैवं निम्नभागः प्रकीर्तितः ॥ ५४६ ॥ अधिकं सूत्रतो यत्तु तदिदानीं निरूप्यते । नासाग्रमण्डलं कार्य ब्रह्मसूत्राद्विनिर्गतम् ॥ ५४७ ॥
परस्य (च) तथा तेन पक्षसूत्रेण घट्टितः । पाणिप्रान्तप्रदेशस्य (श्च) कार्यः सूत्रेण 'चोदितः || ५४८ ॥
१ A पूर्व । २ A सू । ३ D. च । ४ A स्य । ९DF तं । १० DF नं। ११ पक्षसूत्रेण घट्टितः । १३ F यो ।
[ अध्यायः १
अ । ५ दि । ६D शगतंजानु, A शे । A नुं । १२F Takes these two lines after
Aho! Shrutgyanam