________________
४७
विंशतिः ३]
मानसोल्लासः। ब्रह्मसूत्रपुरोभाग लिङ्ग द्वयङ्गुलसम्मितम् । मुष्कमूलं भवेन्मात्रा बाहुरष्टाङ्गुलं' ततः ॥ ५२५॥ चतुरङ्गलमुद्दिष्टो मणिबन्धो विचक्षणैः । पताकेवे करः कार्यः ऊरुलग्नतलो बुधैः ॥ ५२६ ॥ मणिबन्धादहिर्देशे स्फिक्कँटं द्वयङ्गुलं भवेत् । ऊरुस्तस्मादधस्तालो रेखया करवाह्यया ॥ ५२७ ॥ . करबाह्यगता रेखा सङ्गता सँस्थिरेखया । अं(आ) णिदेशस्य विस्तारो भागद्वयमुदाहृतः ॥ ५२८ ॥ जानुसन्धिप्रमाणं तु सप्ताङ्गुलमुदाहृतम् । जानुचक्रस्य विस्तारः सार्धमङ्गुलमिष्यते ॥ ५२९ ॥ इन्द्रबस्तेस्तु विस्तारो वितस्तेरमिष्यते । नलसन्धेश्च विस्तारः कथितश्चतुरङ्गुलः ॥ ५३० ॥ ततो विनिर्गता कार्या वृत्ता पाणि द्वि(दि)मात्रिका। यवद्वितयहीना सा कर्तव्या सुविचक्षणैः ॥ ५३१॥ कनिष्ठानामिकामध्यात्ता(स्ता)सामूर्ध्व प्रदोशनी । अङ्गुष्ठ ऊर्ध्वतस्तासां कर्तव्योऽसौ क्रमेण तु ॥ ५३२ ॥ एवं द्वयर्धाक्षिकं स्थानं विस्तारेण निरूपितम् । ऊर्ध्वरूपं प्रवक्ष्यामि भित्तिकं स्थानक(क) स्फुटम् ॥ ५३३॥ पक्षसूत्रद्वयं तिष्ठेब्रह्ममूत्रं न दृश्यते । लम्बसूत्रक्रमो ह्येष भित्तिके समुदाहृतः ॥ ५३४ ॥ अलीके नासिकामध्ये चूचुके सेन्द्रमूर्धनि । अङ्गुष्ठगुल्फमूले च पक्षसूत्रं निवेश्यते ॥ ५३५ ॥ तेनैव मिलितं कार्य मध्यसूत्रं विचक्षणैः । नान्यत्रं दृश्यते कापि ब्रह्मसूत्रं ततः स्मृतम् ।। ५३६ ॥
3A ला। २ A B च । ३ A कू । ४ A शशि । ५ B D पा A F म, श्रो। ६ A व । A त। ८D. B. त्वा । ९ F. त्सं।
Aho ! Shrutgyanam