________________
मानसोलासः।
[विंशतिः२ युग्मे तिस्राव शून्यं च घटयेद् गणकोत्तमः । तदेव धारयेद् राशौ कोदण्डाख्ये विचक्षणः ॥ ७८ ॥ रचिताः संविऐऽत्र चतुर्मिर्गुणयेत् तिथिम् । तृतीयं तु तिथेभाग नक्षत्रघटिका अपि ॥ ७९ ॥ धनाख्या रविनाइयोऽत्र योज्यास्त्याज्या ऋणाभिधाः । संयोज्य विभजेत् षष्ट्या त्वर्धमृक्षण योजयेत् ॥ ८॥ वक्ष्यामि शशिनक्षत्रं सूर्यः योजयेत् तिथिम् । तिथि सङ्गुणयेत् षडभिर्योजयेत् तिथिनाडिभिः ॥ ८१ ॥ शोध्यं तद् रविनाडीषु ततः शशिभमाप्यते । शशि-रवियोगे योगो नाडियोगेऽस्य नाडिकाः ॥ १२॥ हन्याद् द्वाभ्यां तिथिं तत्र त्याज्यमेकं ततो घटीः । दिनस्य स्फोटयेत् तत्र सप्तभिः परिभाजिते ॥३॥ करणं जायते शिष्टं भुक्तिः सूर्योदयात् पुरः । करणं घटिकास्त्रिंशदिति पञ्चाङ्गनिर्णयः ।। ८४ ॥
इति पञ्चाङ्गनिर्णयः ॥ अनेन विधिनाऽऽनीय तिथिवारसमन्वितम् । नक्षत्रं च तथा योगं करणं गणकोत्तमः ॥ ८५ ।। अभिषेके पट्टबन्धे विवाहे जातकादिषु । गृहप्रवेशे यात्रायां गृहारम्भे च सारे ।। ८६ ॥ शुक्ले चन्द्रबलं मुख्यं कृष्णे ताराबलाबलम् । शतानि पश्च दोषाणां बुधो हन्ति विनिश्चितम् ।। ८७ ॥ शुक्रः पञ्च सहस्राणि दोषाणां हन्ति निश्चितम् । लक्षमेकं तु दोषाणां मुराचार्यों रुपपोहति ।। ८८ ॥
Aho ! Shrutgyanam