________________
मानसोलासः ।
विधतिः२ साता राजकार्येषु रागद्वेषविवर्जिताः । आय-व्यये च निपुणाः सचिवाः कोशवृद्धये ॥ ५५ ॥ अमार्गे वर्तमानस्य नृपस्य प्रतिकूलगा। बोधयन्तः प्रियैर्षाक्यः सचिवाः स्युनुपर्द्धये ॥ ५६ ॥ अन्वयादागतान् शुद्धानुपधाभिः परीक्षितान् । सचिवान् सम वाष्टौ वा कुर्चीत मतिमान नृपः ॥ ५७ ॥ स्वदेशजाताः सत्मज्ञा ऊहापोहविचक्षणाः । देशकालविदो धीराः साध्यासाध्यविवेकिनः ॥ ५८॥ परेजितमा धीमन्तः स्वाकारस्य निगृहकाः । मन्त्रसंरक्षकाचाप्ता मन्त्रिणः स्युमहीपतेः ॥ ५९॥
इति मन्त्रिलक्षणम् ॥ प्रय्यां च दण्डनीत्यां च शान्तिकर्मणि पौष्टिके । भाथर्वणे च कुशलः स स्याद् राजपुरोहितः॥६॥
- इति पुरोहितलक्षणम् ॥ षोडशमिर्हता षष्टिः प्रभवायसंयुता । तानैरपि समायुक्ता शकभूपोद्गताः समाः ॥ ६१ ॥ एकपश्चाशदधिके सहस्र शरद गते । शकस्य सोमभूपाले सति चालुक्यमण्डने ॥ ६२ ॥ समुद्ररशनामुर्वी शासति क्षतविद्विषि । सर्वशास्त्रार्थसर्वस्वपायोधिकलशोद्भवे ॥६३ ॥ सौम्यसंपत्सरे चैत्रमासादौ शुक्रवासरे। परिशोधितसिद्धान्तलब्धाः स्युर्बुवका इमे ॥ ६४ ॥ पड़ारा घटिकाः सा पदान्यपि च विंशतिः । भानि पड़िशस्वेिकचत्वारिंशच नाटिकाः ॥ ६५ ॥
Aho ! Shrutgyanam