________________
अध्यायः २०] मानसोल्लासः।
१४५ केशानां कर्णयोरक्ष्णो सिकायास्तथैव च । निहायाः करयोस्तद्वदङ्गलीपजनस्य च ॥ १२८८ ॥ पादयोरेवमादीनामङ्गानां छेदनं च यत् । अपराधानुसारेण क्लेशदण्डः स उच्यते ॥ १२८९ ॥ बन्धनं ताडनं वाचा रूक्षया भर्सनं तथा । एवंविधप्रकारोऽपि क्लेशदण्डः प्रकीर्तितः ॥ १२९० ।। पणानां शते सार्दै प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं चैव चोत्तमः ॥ १२९१ ॥ विवादेन समः क्वापि द्विगुणः कापि कथ्यते । त्रिगुणो वा कचित् प्रोक्तः कचिदुक्तश्चतुर्गुणः ॥ १२९२ ॥ सर्वस्वस्याधिका कापि दमः सर्वस्वमेव वा । दोषद्रव्यानुसारेण दण्डोऽर्थहरणः स्मृतः ॥ १२९३ ॥ दण्डो रक्षति मर्यादां दण्डो धर्म प्रवर्तयेत् । निवारयेदधर्माच्च तस्माद् दण्डं प्रयोजयेत् ॥ १२९४ ॥ दण्डहीने यतो राष्ट्र मात्स्यो न्यायः प्रवर्तते । तस्माद् दण्डं प्रयुओत दुष्टानां धार्मिको नृपः ॥ १२९५ ॥ दण्डपातभयालोको धर्मे तिष्ठति मूत्रितः । करीव विजयो मत्तोऽप्यङ्कशेन वशीकृतः ।। १२९६ ।। तीव्रदण्डभयाल्लोके भृशमुद्विजते जनः । तस्मान्मृदुमयोगेण प्रजापालनमाचरेत् ॥ १२९७ ॥ यथोक्तदण्डविन्यासाद् भूपतेधर्मचारिणः । यशो धर्मस्तथा राष्ट्र कोशश्व परिवर्धते ॥ १२९८ ॥
--
१E मतः ।
Aho ! Shrutgyanam