________________
अध्यायः २०] मानसोल्लासः।
१४३ सम्भूय च समुत्थानं चतुर्थं परिभाषितम् । पञ्चमं दत्तमाख्यातं षष्ठं दत्तापहारकम् ॥ १२६६ ॥ सप्तमं वेतनादानं संविल्लङ्घनमष्टमम् । क्रयविक्रयानुशयौ नवमं दशमं तथा ॥ १२६७ ।। एकादशं तथा प्रोक्तं विवादः स्वामिपालयोः । स्वामिभृत्यविवादश्च द्वादशं समुदाहृतम् ॥ १२६८ ।। त्रयोदशं समाख्यातं सीमाविवदनं बुधैः । निरूपितं बुधैरत्र वाक्पारुष्यं चतुर्दशम् ॥ १२६९ ॥ उक्तं पञ्चदशं तज्ज्ञैर्दण्डपारुष्यसंज्ञितम् । स्तेयं षोडशमाख्यातमृषिभिस्तत्वदर्शिभिः ॥ १२७० ॥ पदं सप्तदशं नाम साहसं सद्भिरीरितम् । अष्टादशं समादिष्टं स्त्रीसङ्ग्रहणसंज्ञकम् ॥ १२७१ ॥ एकोनविंशं सम्प्रोक्तं स्त्रीपुंधर्मो विचारकैः । दायभागाभिधानं च तत् स्याद् विंशतिमं पदम् ॥ १२७२ ।। एकविंशं तथा द्यूतं द्वाविंशं तु समाह्वयम् । व्यवहारपदान्येतान्याह सोमेश्वरो नृपः ॥ १२७३ ।।
इति व्यवहारपदानि । स्वयं नोत्पादयेत् कार्य समर्थः पृथिवीपतिः । नाददीत तथोत्कोचं दत्तं कार्यार्थिना नृपः ॥ १२७४ ।। विवादायागतं पृच्छेत सभायां पुरतः स्थितम् । किं कार्य किं च दुःखं ते त्यक्तशङ्को निवेदप ॥ १२७५ ॥ निरूपिते पुनः पृच्छेत् केन कस्मिन् कुतः कथम् ।
तस्मात् तव कृतं ब्रूहि सत्यमेव सभागतः ॥ १२७६ ॥ १ BCE: पहारिकं । २ D संज्ञितं ।
Aho ! Shrutgyanam