________________
१४१
अध्यायः २० ]
मानसोल्लासः। व्यवहारान् नृपः पश्येद् विद्विद्वरैः सह । स्मृतिशास्त्रानुरोधेन रागद्वेषविवर्जितः ॥ १२४३ ॥ अदोषान् दूषयेद् राजा दोषयुक्तानदण्डयन् । अकीर्ति महतीमेति दुर्गतिं चाधिगच्छति ॥ १२४४ ।। ऋत्विक् पुरोहितः पुत्रो भ्राता बन्धुस्तथा सुहृत् । अदण्डयो नृपतेनास्ति स्वधर्माच्चलितो नरः ॥ १२४५ ॥ वेदशास्त्रार्थतत्त्वज्ञाः सत्यसन्धाश्च धार्मिकाः । सभ्या नृपतिना कार्या मित्रामित्रेषु वै समाः ॥ १२४६ ॥ धीरैरलोलुपैरोंलैलोकव्यापारकोविदः । विप्रैः सह महीपालो गुण-दोषौ विचारयेत् ॥ १२४७ ॥ . विचारे यत्र तिष्ठन्ति विप्राः श्रुतिविदस्त्रयः । पञ्च वा सप्त वा सा स्याच्छतक्रतुसमा सभा ॥ १२४८ ॥ तस्यां सभायां यः कश्चिद् धर्मज्ञः श्रुतिकोविदः । निर्दिष्टो वाप्यनिर्दिष्टः स तत्वं वक्तुमर्हति ॥ १२४९ ।। न्याय्यं पन्थानमुत्सृज्य ये गतस्यानुयायिनः । सभ्यास्ते बोधनीयाः स्युर्मार्ग धर्मस्य शाश्वतम् ।। १२५० ॥ अनिर्दिष्टश्च तत् सर्व सत्यं ब्रूयात् समअसम् । ज्ञात्वा वा न वदेत् तत्वं मिथ्यावादी च पापभाक् ॥ १२५१ ॥ कुलीनाः शीलवन्तश्च धनिनो वयसाऽधिकाः । अमत्सरा विशः कार्याः कियन्तोऽपि सभासदः ॥ १२५२ ॥ अलोभं सत्यसन्धं च धर्मशीलं प्रियंवदम् । धर्मशास्त्रार्थ कुशलं लोकयात्राविचक्षणम् ।। १२५३ ॥ विचारे पण्डितं दक्षं पाडिवाकतया युतम् । इङ्गिताकारतत्त्वज्ञमूहापोहविशारदम् ॥ १२५४ ॥
Aho ! Shrutgyanam