________________
अध्यायः १३]
मानसोल्लासः। शुभं वाप्यशुभं प्रान्ते तदेव फलदायकम् । • पोतकीशकुनज्ञानं कीर्तितं सोमभूभुजा ॥ ८६३ ॥
इति पोतकीशकुनम् ॥ फल-पुष्प-पलाशाढ्यं क्षीरिणं वा महीरुहम् । पवित्रस्थानसंयुक्तं पिलायुगलान्वितम् ।। ८६४ ॥ अर्चयेदधिवासार्थ सायङ्काले समाहितः । स्नात्वा शुक्लाम्बरो भूत्वा सहायसहितो बुधः ॥ ८६५ ॥ नषेन गोमयेनोवीं लिप्त्वा गोचर्मनिर्मिताम् । अष्टपत्रं लिखेत् पद्मं पिष्टेनाट्टैण कोविदः ॥ ८६६ ॥ कृत्वा पिष्टमयं तत्र पिङ्गलायुगलं शुभम् । चण्डी च स्थापयेत् तत्र क्लिष्टां (क्लृप्तां) पिटेन सायुधाम् ।।८६७॥ लोकपालाष्टकं तत्र ध्यायेत् पद्मदलाष्टके । ब्रह्माणं कमलस्योर्ध्वमच्युतं च तलस्थितम् ॥ ८६८ ॥ तचनामाक्षरैर्मन्त्रैः प्रणवाधैर्नमोऽन्तगैः ।
पूजयेत् फल-पुष्पायेधूप-नैवेद्य-दीपकैः ॥ ८६९ ॥
वृक्षस्थानाय नमः इत्यासनमन्त्रः । ॐ ह्रीं श्रीं चामुण्डे हुं नमोऽ स्मिन् वृक्षे अवतर स्वाहा।
ध्यायननेन मन्त्रेण चण्डी वृक्षेऽवतारयेत् । पिङ्गलायुगलस्पापि मन्त्रोऽयं कथ्यतेऽधुना ॥ ८७० ॥
ॐ पिङ्गले मेखले रेवति रात्रिचारिणि ब्रह्मपुत्र सत्यमेतद् हि मे स्वाहा । इत्यावाहनमन्त्रः । ॐ श्रीं ह्रीं हूं चलि वौषटै इति मूलमन्त्रः । ॐ सिद्धचामुण्डे कृष्णपिङ्गले स्वाहा । ॐ नमो भगवति कालरात्रि मन्त्रमूर्ति महेश्वरि चामुण्डे प्रजापालनि योगेश्वरि आगच्छ आगच्छ एबेहि तिष्ठ तिष्ठ ॐ हीं चिलि चिलि शब्दाय स्वाहा । इत्यधिवासनमन्त्रः ॥
१ BC वृषमस्वा । २ 0 पंचा। ३ CE ॐ हीं ही हूँ वलि वलि वौषट् ।
· Aho ! Shrutgyanam