________________
अध्यायः १३]
मानसोल्लासः। लाभं च विजयं सौख्यं मित्राणां च समागमम् । रटन्ती शान्तदिग्भाग क्रमात् फलमिदं वदेत् ।। ८४१ ॥ अनेनैव प्रकारेण पल्लीशकुनमादिशेत् । दीप्तस्थाने रटन् काकः शोभनं फलमादिशेत् ॥ ८४२ ॥ दी दीसमुखः काकः कुर्वाणः परुषं स्वरम् । कार्यसिद्धि प्रदर्याय विनाशं कुरुते ध्रुवम् ॥ ८४३ ॥ दिप्ताभिमुखमारब्धः पुनः शान्तेऽभिवासते । कार्य संशयितं कृत्वा पुनस्तत्सिद्धिमादिशेत् ॥ ८४४ ।। दी शान्तमखः काकः कुर्वाणो मधुरं स्वरम् । ईप्सितार्थ रिपोशिं लाभं स्त्रीरत्नजं दिशेत् ॥ ८४५ ।। अन्तरिक्षेऽय वृक्षे वा कुर्वाणो मधुरं स्वरम् । मूर्द्धस्थाने शुभं वक्ति सर्वदा बलिभोजनः ॥ ८४६ ॥
इति शिवा-पल्ली-काकशकुनानि ॥ पोतकीस्थानमालोक्य तोरणानि प्रकल्पयेत् । तोरणात् तोरणं कार्य चत्वारिंशत्क्रमान्तरम् ॥ ८४७ ॥ पक्षद्वयस्थितौ वृक्षावष्टधन्वन्तरान्तरौ । शिलाशकलयुग्मं वा कल्पितं तोरणं विदुः॥ ८४८ ॥ गृहे पिष्टमयं कृत्वा पोतकीमिथुनं सुधीः । पूजयेत पुष्प-धूपायैः कुमारीमपि भोजयेत् ॥ ८४९ ॥ तोरणस्थानमागम्य पोतक्यावधिवासयेत् । प्रयतः सन् गृहं गत्वा स्वप्यात् पाण्डविके स्मरन् ॥ ८५० ॥ सूर्योदये समुत्थाय सहायैः सहितो ब्रजेत् । नियतस्तोरणाभ्याचं शकुनालोकतत्परः ॥ ८५१ ॥
Aho ! Shrutgyanam