SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ महाविद्याविडम्बनम् । १४ यद्वा सामान्यतः अयं शब्दः एतन्निष्ठात्यन्ताभावानित्यत्वान्यतराधिकरणं मेयत्वादिति ॥ १४ ॥ १४ ( भुवन० ) - यद्वा सामान्यतः इत्यादि । एतन्निष्ठः शब्दत्व श्रावणत्वादिधर्मविशेषः, तस्यात्यन्ताभावः एतनिष्ठात्यन्ताभावः ॥ १४ ॥ १५ अयं शब्दः एतदन्योन्याभावात्यन्ताभावानित्यत्वात्यन्ताभावान्यतररहितः मेयत्वादिति । अत्र चैतदन्योन्याभावात्यन्ताभाववति पक्षे तद्रहितत्वं व्याहृतमित्यनित्यत्वात्यन्ताभावरहितत्वं पक्षे सिध्यदनित्यत्वमन्तर्भाव्य सिध्यतीत्यनित्यत्वसिद्धिः ॥ १५ ॥ १५ ( भुवन० ) अयं शब्दः एतदन्योन्याभावेत्यादि । एतस्य शब्दस्यान्योन्याभावएतदन्योन्याभावः । तस्य अत्यन्ताभावश्च अनित्यत्वात्यन्ताभावश्च नित्यत्वम् । तयोरन्यतरेण रहित इत्यर्थ: । अयं शब्द: अनित्यत्वात्यन्ताभावरहित इत्युक्ते नित्येषु साध्यासिद्धि: । तन्निरासाय एतद्न्योन्याभावात्यन्ताभावेत्युक्तम् । एवमपि नित्येषु साध्यासिद्धिरेव । तेषामेतदन्योन्याभावात्यन्ताभावरहितत्वेन अनित्यत्वात्यन्ताभावरहितत्वेन चैतद्दूयरहितत्वासंभवात् । तेन तेषु साध्यसिद्धयर्थमन्यतरेति गृहीतम् । अत्रानित्यत्वसिद्धिमाह - अत्र चैतदन्योन्याभावात्यन्ताभावेत्यादिना । तद्राहितत्वमिति । एतदन्योन्याभावात्यन्ताभावरहितत्वमित्यर्थः ॥ १५ ॥ २९ १६ अयं शब्दः शब्दत्वानित्यत्वात्यन्ताभावान्यतररहितः मेयत्वादिति ॥ एवं पक्षनिष्ठं यं कश्चन धर्मविशेषमुपादाय यावन्तः पक्षे धर्माः, तावत्यो महाविद्या द्रष्टव्याः ॥ १६ ॥ १६ ( भुवन० ) - अयं शब्दः शब्दत्वेत्यादि । अनित्यत्वस्य अत्यन्ताभावः अनित्यत्वात्यन्ताभावः नित्यत्वम् । शब्दत्वं चानित्यत्वात्यन्ताभावश्च । तयोरन्यतररहितः तयोरन्यतरात्यन्ताभावाश्रयः इत्यर्थः । यं कञ्चन धर्मविशेषमिति । वाचकत्ववर्णात्मकत्वाकाश विशेषगुणत्व श्रावणत्वैवि - शिष्टसामान्यवत्त्वादिकमित्यर्थः ॥ १६ ॥ १७ या सामान्यतः अयं शब्दः एतन्निष्ठानित्यत्वात्यन्ताभावान्यतररहितः मेयत्वादिति ॥ एतन्निष्ठश्चानित्यत्वात्यन्ताभावश्चेति द्वन्द्वसमासः ॥ १७ ॥ १७ ( भुवन० ) - यद्वा सामान्यत इत्यादि । सुगमैव पूर्ववत् ॥ १७ ॥ १८ अयं शब्दः एतदन्योन्याभावव्यतिरिक्तनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति ॥ एतदन्योन्याभावव्यतिरिक्तनित्यनिष्ठेषु एतदन्योन्याभावव्यतिरिक्तनित्यनिष्ठत्वं धर्मः । तद्रहितश्चैतदन्योन्याभावो वा स्यात्, नित्यनिष्ठ - त्वरहितो वा । आद्यः पक्षे व्याहतः । तेन नित्यनिष्ठत्वरहितः पक्षे सिध्यन्ननि त्यत्वमन्तर्भाव्य सिध्यतीत्यनित्यत्वसिद्धिः ॥ १८ ॥ १ धर्मपा इति ज पुस्तकपाठः । २ श्रवणत्वे सति सामान्य इति द पुस्तक पाठः । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy