________________
महाविद्याविडम्बनम् ।
I
पक्षान्योन्याभावश्च । तयोः किंविशिष्टयोः । पक्षव्यतिरिक्तनित्यानित्यनिष्ठयोः । पक्षः शब्दः, तद्व्यतिरिक्ता ये नित्या आत्मादयोऽनित्याश्च घटादयः, तन्निष्ठयोः तद्वर्तिनोः । पुनः किंरूपयोः । उक्तरूपयोः स्वस्वेतरवृतित्वानाक्रान्तानित्यनिष्ठयोः । वादिप्रतिवादिनोरुभयोरपि सिद्धत्वादित्यर्थः ।
ये तु सामान्यतः शब्दः शब्दतदितरवृत्तित्वानाक्रान्तानित्यनिष्ठाधिकरणमिति प्रतिजानते, तेषां स्पष्टो व्याघातः । यस्य कस्यचिदपि शब्दधर्मस्य शब्दतदितरवृत्तित्वेन शब्दतदितरवृत्तित्वानाक्रान्तत्वस्यासंभवात् । यस्य कस्यचिदपि शब्दस्य शब्दत्वाश्रयत्वेन शब्दत्वात्, शब्दान्तरापेक्षया च शब्देतरत्वादिति ।
( आनं० ) - अयमिति पक्षविशेषणं हित्वा शब्दमात्रं धर्मीकृत्य प्रयुज्यतां लाघवादित्यत आह-येत्विति । आकाशविशेषणत्वादेः शब्दमात्रवृत्तेः शब्दतदितरवृत्तित्वाभावात्कथं व्याघातस्तत्राह-यस्य कस्यचिदिति । शब्दत्वाधिकरणप्रतियोगिकेतरेतराभावाधिकरणनिष्ठत्वाभावात् कथं शदेब्तरवृत्तित्वमत्राह-यस्य कस्यचिदपि शब्दस्येति ।
( भुवन ० ) - ननु पक्षमात्रनिष्ठधर्मात्यन्ताभावपक्षान्योन्याभाववत्तयोः स्थाने यथानुक्रमं पक्षमात्रनिष्ठधर्मान्योन्याभावपक्षात्यन्ताभावयोरपि ग्रहणे को दोषः । उच्यते । पक्षमात्रनिष्ठधर्मान्योन्याभावस्य वैशेषिकादीनां मते धर्मधर्मिणोर्भिन्नत्वेन शब्देऽपि वर्तमानत्वात् स्वस्वेतरवृत्तित्वेन तद्वृत्तित्वानधिकरणत्वानुपपत्तिः । पक्षात्यन्ताभावस्य चाकाशाऽवृत्तित्वेन दृष्टान्तत्वानुपपत्तेः केवलान्वथित्वव्याघातश्च स्यादिति न तयोर्ग्रहणम् । एवमग्रेऽपि सर्वत्र महाविद्यानुमानादौ पक्षमात्रनिष्ठधर्मात्यन्ताभावपक्षान्योन्याभावयोर्ग्रहणे कारणं ज्ञेयम् ।
तेषां स्पष्ट व्याघात इति । अयमर्थः । अत्रायभितिपदं विना सामान्येन शब्द इत्युच्यमा - नेऽनित्यवृत्तित्वेन सिषाधयिषितस्य शब्दत्व श्रावणत्वादेः सर्वशब्दधर्मस्य यस्मिन्कस्मिंश्चिदपि घटे - त्यादिरूपे पक्षीकृतशब्दे पक्षीकृत शब्दादितरस्मिन् पटलकुटेत्यादिरूपे शब्दान्तरे च वर्तमानत्वेन शब्दतदितरवृत्तित्वेन तद्नाक्रान्तत्वं नोपपद्यते । अत्र वानित्यवृत्तित्वेन सिषाधयिषितः शब्दत्वादिः सर्वशब्दधर्मः शब्दतदितरवृत्तित्वानाक्रान्तो विलोक्यते । अतः स्पष्ट एव व्याघातः । अयमित्युच्यमाने तु एतच्छब्दत्वादिरेव धर्मः अनित्यवृत्तित्वेन विशेषितः सिषाधयिषितः । स चैतच्छब्द एव वर्तते न त्वन्यत्रेति न तत्र व्याघात इति । व्याघातमेव 'यस्य कस्यचिदपि ' इत्यादिना स्पष्टयति-यस्य कस्यचिदपीति । शब्दत्व श्रावणत्वा काश विशेषगुणत्वादेः शब्दधर्मस्येत्यर्थः । तस्मादेकैकमेव शब्दादिकं धर्मिणं निष्कृष्य पक्षीकृत्य सर्वमहाविद्याप्रयोगो द्रष्टव्यः । यद्वा शब्दः शब्दशब्दत्वरहितनिष्ठत्वानाक्रान्तानित्यनिष्ठांधिकरणमिति सामान्यतः प्रयोक्तव्या प्रतिज्ञा ।
( आनं० ) - शब्दविशेषस्यानित्यत्वं प्रसाध्य तद्दृष्टान्तेन इतरशब्दानां तत्साधने गौरवादेकः
१ शब्दधर्मस्य इतिपदं ग पुस्तके नास्ति । २ निष्ठधर्माधिक' इति ज पुस्तकपाठः । ३ प्रयोक्तव्यम इति ज पुस्तकपाठः ।
२ महाविद्या ०
Aho! Shrutgyanam