________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं
तृतीये चेति । तमेव दूषयति तथा चेति । पक्षवृत्तित्वरहितः पक्षे वर्तते इति व्याघातः । पक्षेतरवृत्तित्वरहितः पक्षवृत्त्यनित्यनिष्ठो धर्मोऽप्रसिद्ध इत्यर्थः । उक्तं दूषणमन्यत्रापि ज्ञेयमित्यति दिशति - एवमिति ।
तदयुक्तम् । यथा पक्षवृत्तिधर्मेषु पक्षवृत्तित्वं धर्मः, यथ च पक्षेतरवृतिधर्मेषु पक्षेतरवृत्तित्वं धर्मः, एवं ये पक्षे तदितरस्मिंश्च वर्तन्ते धर्माः तेषु पक्षतदिरवृत्तित्वं नाम धर्मः । तदत्यन्ताभावश्च स्वस्वेतरवृत्तित्वानाक्रान्तत्वम् । तद्वांश्व स्वस्वेतरवृत्तित्वानाक्रान्तः । स चासावनित्यनिष्ठश्चं । तेन स्वस्वेतरवृत्तित्वात्यन्ताभाववदनित्यनिष्ठधर्मवान्पक्ष इति प्रतिज्ञार्थः स्यात् । तथा च न व्याघातः । पक्षमात्रवृत्त्यनित्यनिष्ठधर्मसिद्ध्यापि प्रतिज्ञावाक्यार्थस्योपपन्नत्वादिति । न चाप्रसिद्धविशेषणत्वम् । पक्षमात्रनिष्ठधर्मात्यन्ताभावपक्षान्योन्याभावयोः पक्षव्यतिरिक्तनित्यानित्यनिष्ठयो रुक्तरूपयोरुभयवादिसिडत्वादिति । एवं महाविद्यान्तरेष्वपि व्याचताप्रसिद्धविशेषणत्वे परिहरणीये ।
८
( आनं० ) - समाधत्ते - तदिति । स्ववृत्तित्वेन विशिष्टं स्वेतरवृत्तित्वं, तदत्यन्ताभावः स्वस्वेतरवृत्तित्वानाक्रान्तत्वमिति न विवक्षितं, किन्तु स्ववृत्त्या विशिष्टा स्वेतरवृत्तिः, तदभावः स्वस्वेतरवृत्तित्वं, तदत्यन्ताभावस्तथा विवक्षित इति सदृष्टान्तमाह - तथेति । प्रतिज्ञापर्यवसानमाह - तेनेति । एवमपि व्याघाततादवस्थ्यं विशिष्टवृत्तिनिष्ठधर्मनिषेधस्य विशेषणी भूतस्ववृत्तिनिषेधेन वाच्यत्वादित्य आह - तथा चेति । विशेष्यभूतस्वेतरवृत्त्यभावेनापि विशिष्टवृत्तिनिष्ठधर्मविशेषोपपत्तेरिति हेतुमाह-पक्षमात्रेति । तथा च पक्षस्यानित्यत्वसिद्धिः, अपरथा पक्षमात्रवृत्तेर नित्यनिष्ठधर्मत्वासिद्धेरिति भावः । पक्षस्यानित्यत्वसिद्धेः प्रागेवंभूतधर्मा प्रसिद्ध या अप्रसिद्धविशेषणत्वमत्राह-न चेति ।
( भुवन ० ) - उक्तदूषणपरिहारमाह - तद्युक्तमिति । स्त्रवृत्तित्वेन विशिष्टं यत् स्वेतरवृत्तित्वं तदत्यन्ताभावः स्वस्वेतरवृत्तित्वानाक्रान्तत्वमिति न विवक्षितं, किन्तु स्ववृत्त्या विशिष्टा या स्वेतर - वृत्तिः तदत्यन्ताभावस्तथा विवक्षित इति । यथेत्यादि दृष्टान्तोपन्यासपूर्वकं दाष्टन्तिकमाह - एवं ये पक्षे तदितरस्मिश्चेति । अयमभिप्रायः - केवलं स्ववृत्तित्वानाक्रान्तत्वं केवलं स्वेतरवृत्तित्वानाक्रान्तत्वं च यस्यानित्यवृत्तेर्धर्मस्य स्यात् स शब्दे न निषिध्यते, किन्तूभयवृत्तिर्निषिध्यते । स च सत्त्वप्रमेयत्वादिः । प्रतिज्ञापर्यवसानमाह - तेन स्वस्वेतरवृत्तित्वात्यन्ताभावेत्यादि । स्वस्वेतरयुगले वृत्तिर्येषां धर्माणां सत्त्वप्रमेयत्वादीनां तेषु स्वस्वेतरवृत्तित्वं नाम धर्मः, तस्य योऽत्यन्ताभावः, तद्वान् यः कश्चनानित्यनिष्ठो धर्मः श्रावणत्वकृतकत्वादिः, तद्वान्पक्ष इति प्रतिज्ञार्थः स्यादित्यर्थः । तथा च न व्याघातः । अत्र हेतुमाह - पक्षमात्रेति । पक्षमात्रवृत्तियोऽनित्यनिष्ठो धर्मस्तत्साधनेनापि प्रतिज्ञावाक्यार्थस्योपपन्नत्वादित्यर्थः । अप्रसिद्धविशेषणत्वमप्यत्र पक्षे न स्यादित्याह-न चेति । अत्र हेतुं ब्रूतेपक्षमात्रनिष्ठधर्मात्यन्ताभावेति । पक्षमात्रनिष्ठा ये धर्माः शब्दत्व श्रावणत्वादयः तेषामत्यन्ताभावश्च
१ यथा पक्षे इति ग पुस्तकपाठः । २ रुक्तरूपोपपन्नयोरुभ' इति ज पुस्तक पाठः ।
Aho! Shrutgyanam