________________
१८२
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । वृत्तिा व्यतिरेको वा प्रसाध्यते, शब्दे इति शेषः इति केचियाख्यातवन्तः । तदसंगतम् । तथा सति आकाशादौ सपक्षे तथाभूतनित्यत्वलक्षणधर्मव्यतिरेकस्वीकारे अनिष्टापत्तिः स्यात् । अयं चार्थ:-असाध्यात् नित्यादन्यत् एतद्वियुक्तं शब्दव्यतिरिक्तं विश्वं एतद्वयव्यतिरेकेण भवति । तस्मादन्यदेत. द्वयमेव । तस्मायावृत्तिमत्वे साध्ये शब्दः शब्दव्यावृत्तिमानित्युक्ते विरोधः स्यात् । अतः परिशेषात् नित्यः शब्दो न भवतीति नित्यव्यावृत्तिरागच्छति । सति चैवमर्थे शब्दः आकाशो न भवतीति शब्दमादाय व्याप्तिः ।
(अथ एकादशानुमानम् ।) (भुवन०)-असाध्यान्येतीति ।
___"असाध्यान्यवियुक्तान्यव्यावृत्तिा प्रसाध्यते ॥" इति केचियाख्यातवन्तः तदसङ्गतमिति । अस्मिन्व्याख्याने नित्यव्यावृत्तिः प्रसाध्या । तथा च सति आकाशे दृष्टान्तीक्रियमाणे नित्यव्यावृत्तौ स्वीक्रियमाणायामनिष्टापत्तिः स्यात् । आकाशस्य नित्यत्वात् । ततोऽन्वयित्वव्याघातात् इदं व्याख्यानमसङ्गतमित्यर्थः । अयं चार्थः इत्यादि । अत्रानुमानमध्ये एतदः प्रोक्तत्वात् कारिकार्थव्याख्यानावसरे सोऽनुक्तोऽपि गृह्यते । एतस्माच्छब्दा. द्वियुक्तमेतद्वियुक्तं शब्दव्यतिरिक्तं विश्वम् । तत् किंविशिष्टम् । असाध्यान्यत् असाध्यात् नित्यादन्यत् असाध्यान्यत् । ततश्च असाध्यान्यच्च तत् एतद्वियुक्तं च असाध्यान्यैतद्वियुक्तमिति कर्मधारयः । एतावता नित्येन शब्देन च विरहितं विश्वं जातम् । ततोऽसाध्यान्यवियुक्तादन्यौ असाध्यान्य. वियुक्तान्यौ, तौ च नित्यशब्दावेव । तयोर्ध्यावृत्तिभिन्नत्वं शब्दे साध्यते ।
___ अथानुमानम् । शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमान् मेयत्वात् घटाकाशादिवत् । अतः परिशेषानित्यव्यावृत्तिरागच्छतीत्यादि । शब्दे शब्दव्यावृत्तिर्घटते न । तस्मानित्यव्यावृत्तिरायाति । तथा च नित्यव्यावृत्तौ सत्यां शब्दोऽनित्यो जातः एव । ननु एकस्माच्छब्दादपरः शब्दो व्यावर्तते इति शब्दव्यावृत्तिरपि शब्दे जाघटीत्येव, कस्मान्न घटते इत्युक्तम् । उच्यते । अत्र पक्षीकृतशब्दमध्ये सर्वे त्रिभुवनोदरविवरवर्तिनः शब्दाः गृहीताः । अयं शब्दः इत्यभणनात् । ततो न कश्चिद्दोषः । सति चैवमर्थे शब्दः आकाशो न भवति इत्यादि । अत्र साध्यतात्पर्य द्वयमुद्ररितं शब्दनित्यरूपम् । तत्रान्यव्यावृत्तिरिति भणने शब्दनित्यरूपपदार्थद्वयात् यदि व्यावृत्तिवति, तदाप्यन्यव्यावृत्तिरुच्यते । द्वयोर्मध्ये एकस्माद्यदि व्यावृत्तिर्भवति तदाप्यन्यव्यावृत्तिरुच्यते। अन्यशब्दस्य साधारणत्वात् । ततोऽस्मिन्ननुमाने आकाशे दृष्टान्तीक्रियमाणे आकाशस्य नित्यरूपत्वान्नित्यव्यावृत्तिर्न घटते । ततः शब्दः आकाशरूपो न भवतीत्याकाशस्य शब्दाव्यावृत्तिः क्रियते । एवमात्मघटादावपि ज्ञेयम् ।
अत्र पदयोजना सुगमैव । १ अद्वरित इति ख, त, ध इति संशितादर्शपुस्तकत्रयेऽपि पाठो दृश्यते। स च मुर्वरित इति संभाव्यते।
Aho! Shrutgyanam