________________
महाविद्याविवरणम् ।
१८१ - तस्यैवोपलक्षणस्येति । अङ्कुरस्य मुख्यानुमानापेक्षया पक्षत्वेऽप्युपलक्षणत्वेन घटस्य सपक्षमध्यादुद्धृत्य पक्षीकृतस्येत्यर्थः । अथानुमानम्-अयं घटः एतद्घटाकरान्यान्यसकर्तृकावृत्तिमान् मेयत्वात् आकाशादिवत् वा । एतद्भुटाकुराभ्यामन्यद्विश्वं, तस्मादन्यौ एतद्धटाकुरावेव सकर्तृको, तत्र यो न वर्तते तद्वान् पक्षीकृतो घटः साध्यते इत्यर्थः । तत्र घटे घटावृत्तिधर्मवत्त्वं विरुद्धं, तस्मात् सकर्तृकेऽङ्करे यो न वर्तते स एतद्भुटाकुरान्यान्यसकर्तृकावृत्तिर्घटत्वादिधर्मः, तद्वान् घट इत्यायातम् । तथा च सति अङ्कुरस्य सकर्तृकत्वं पारिशेष्यात्सिद्धम् । शेषं पूर्ववत् । इति नवमानुमानम् ॥
( अथ दशमानुमानम् ) पुनरप्येतदेवानुमानं पदान्तरोपादानेन भङ्गयन्तरेण दर्शयति__ १० तद्वृत्त्यवृत्तिरथवा प्रोद्धृतेऽत्र प्रसाध्यते ॥७॥ यथा-अयं घटः एतद्घटाकुरान्यान्यसकर्तृकधर्मविरही। .
अयमर्थः-तवृत्तिः यो धर्मः एतड्वन्टाकुरान्यान्यसकर्तृकवृत्तिरित्यर्थः । तस्य धर्मस्य या अवृत्तिः वर्तननिषेधः । स चात्र घटे प्रसाध्यते इत्यर्थः । अत्र अथवा शब्दो भङ्गयन्तरसूचनार्थः एव । व्यावृत्त्यानि च तानि पूर्वतनान्येव । इति दशमानुमानं समाप्तम् ॥
(अथ दशमानुमानम् ।) (भुवन०)-तद्वृत्तीति ।
__तद्वत्त्यवृत्तिरथवा प्रोद्धृतेऽत्र प्रसाध्यते " ॥१०॥ अथानुमानम्-अयं घट: एतद्धटाङ्करान्यान्यसकर्तृकधर्मविरही मेयत्वात् गगनादिवत् । सकर्तृकघटाकरयोर्थे धर्मास्तेषां विरहो घटे साध्यते । तत्र घटे घटधर्मविरहस्तावत्संभवति न। तस्मात्सकर्तृकाङ्कुरधर्माः अङ्कुरत्वादयः तेषां विरहो घटे प्रसाध्यते । तथा च सति सकर्तृकाङ्करधर्मविरही घटः तदेव, यद्यङ्करः सकर्तृकः स्यादित्यर्थः । शेषं पूर्ववदेव ज्ञेयम् । इति दशमानुमानम् ॥
(अथ एकादशानुमानम् ।) एवमेकस्मिन्नेवार्थे सर्वसाधकं प्रकारत्रयं दर्शितम् । इदानी पुनः शब्दानित्यत्वसाधनं प्रकारान्तरं दर्शयितुं संग्राहकं कारिकार्धमाह
११ असाध्यान्यवियुक्तान्यव्यावृत्तिा प्रसाध्यते । शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमान् ।
असाध्यं नित्यत्वं, तस्मादन्यत् अनित्यत्वम् । तस्मादसाध्यान्यात् अनित्यत्वात् वियुक्तोऽन्यो नित्यरूपः सोऽसाध्यान्यवियुक्तान्यः नित्यः । तस्माया.
१ अत्तिः व्यादत्तिः वर्त इति ख पुस्तक पाठः ।
Aho ! Shrutgyanam