________________
१२
भुवनसुन्दरसूरिकृतटीकायुतं बाच्यम् । महाविद्यावदपर्यवसानात्तत्सिद्धेः। न हि प्रकृतं साध्यं मेयत्वा. व्यापकं मेयत्वं च तद्व्याप्यमिति प्रतिपत्तुं शक्यम् । तदिदमुक्तं उदाहरत्यभिमतव्याप्यत्वभङ्गं निजमिति । अभिमतं साध्यं, · तयाप्यत्वं अभिमतव्याप्यत्वमिति । तस्य भङ्गः तद्भाव इति ।
(भुवन०)-अत्र पक्षीकृतेत्यादिमहाविद्यासाध्याव्याप्यस्य कस्याप्यप्रसिद्धेः, तनिष्ठधर्मस्यापि सपक्षेऽप्रसिद्धत्वात् अप्रसिद्धविशेषणत्वं पक्षस्य आशङ्कमानः परिहरति-न च पक्षीकृतेत्यादि । महाविद्यासाध्यस्य सर्वव्यापकत्वान्महाविद्यासाध्येन अव्याप्यस्य अप्रसिद्धः, तन्निष्ठधर्मस्याप्यप्रसिद्धत्वात्पक्षोऽप्रसिद्धविशेषणः इति परमार्थः । हेतुमाह-पक्षीकृतेत्यादि । पक्षीकृतेत्यादिमहाविद्यासाध्यव्याप्यत्वं पक्षः । स्वस्वेतरवृत्तित्वरहितश्वासौ कुतश्चिद्यावृत्तनिष्ठश्चेति विग्रहः । खशब्देनैतत्पक्षंग्रहः । अत्र स्वमात्रवृत्तिरेतत्पक्षत्वादिधर्मः पक्षेऽवसेयः । स च कुतश्चिव्यावृत्ते निष्ठः तदैव, यदि पक्षितं महाविद्यासाध्यव्याप्यत्वं कुतश्चिद्व्यावृत्तं स्यात् । तथा च यतो महाविद्यासाध्यव्या. प्यत्वं व्यावृत्तं स महाविद्यासाध्याव्याप्यः सिद्ध एव । पक्षान्यत्वादिधर्मेण कुतश्चिद्यावृत्तं घटत्वादि तनिष्ठेन साध्यप्रसिद्धिः । व्याप्यत्वं यथोक्तसाध्यवदित्युक्तेऽग्निमत्त्वव्याप्यत्वं कुतश्चिद्धटादेावृत्तं स्वमेव तन्मात्रनिष्ठधर्मवदित्वर्थान्तरम् । तदर्थ पक्षीकृतेत्यादि गृहीतम् । पक्षीकृतेत्यादिव्याप्यत्वमधिकरणमित्युक्ते स्वमात्रनिष्ठधर्मेण अर्थान्तरं, तत उक्तं कुतश्चिव्यावृत्तनिष्ठेति । इतरद्विशेषणं व्याख्यातार्थम् । तत्सिद्धेरिति । पक्षीकृतेत्यादिमहाविद्यासाध्याव्याप्यत्वसिद्धेरित्यर्थः । मेयत्वहेतोर्महाविद्यासाध्यव्याप्यत्वं प्रयोगान्तरेण निरस्यति-पक्षीकृतेति । मेयत्वेऽवृत्तिर्यस्य स मेयत्वावृत्तिः, तत्र निष्ठा यस्य स तथा । स्वस्वेतरवृत्तित्वरहितश्वासौ मेयत्वावृत्तिनिष्ठश्च तस्याश्रय इत्यर्थः । इह स्वमात्रवृत्तिरेतत्पक्षत्वं धर्मो मेयत्वावृत्तिनिष्ठः पक्षे सिध्यन्महाविद्यासाध्यव्याप्यत्वस्य पक्षितस्य मेयत्वे अवृत्तिं साधयति । तथा च मेयत्वस्य महाविद्यासाध्येन अव्याप्यत्वं सिद्धमेव । इह सपक्षे पक्षान्यत्वं धर्मोऽवसेयः । मेयत्वहेतोरेव व्याप्यत्वाभावानुमानं तृतीयमाचष्टे-पक्षीकृतेत्यादि। महाविद्यासाध्यं पक्षः । अत्रैवंविधो धर्मः स्वेतरमात्रवृत्तिः स्वमात्रवृत्तिश्च । तत्राद्यः पक्षे व्याहत इति द्वीतियः एतत्पक्षत्वं धर्मः पक्षे सन् सिध्यति । स च मेयत्वस्य अव्यापके निष्ठस्तयेव, यदि महाविद्यासध्यं मेयत्वाव्यापकं स्यात् । यदि च महाविद्यासाध्यं मेयत्वाव्यापक समजनि, तदा मेयत्वं महाविद्यासाध्येन अप्याव्यं संपन्नमेवेति व्याप्यत्वाभावः । महाविद्यासाध्यान्यत्वधर्मेण मेयत्वाव्यापकं घटत्वं तन्निष्ठेन साध्यानुगमः । व्यावानि पूर्ववद्वोद्धव्यानि । आशङ्कां कुर्वनिराकरोति-न च अनेनेति । अनेन अनन्तरोक्तेनैवानुमानेन पक्षे महाविद्यासाध्यरूपे मेयत्वस्य यद्व्यापकत्वं तस्याभावसिद्धिः स्यात्, न तु मेयत्वे तद्व्याप्यत्वस्य महाविद्यासाध्यरूपन्यापकव्याप्यत्वस्य अभावसिद्धिरिति न वाच्यम् । हेतुमाह-महाविद्येति । यथा महाविद्यायायां अपर्यवसानेन साध्यसिद्धिः, तथेहापि । यदि महाविद्यासाध्ये मेयत्वाव्यापकत्वं सिद्धं, तदानीं मेयत्वतदव्याप्यं सिद्धमेवेत्यपर्यवसाना
१ अपक्षीकृ' इति छ द पुस्तकपाठः । २ व्याप्यत्वासपक्षि इति छ द पुस्तकपाठः ।
Aho ! Shrutgyanam