________________
१०३ महाविद्याविडम्बनम् ।
१२५ साध्यप्रसिद्धिनेंत्याह-स्वेति । उपाधेः साधनाव्यापकत्वमनुमाय साध्यव्यापकत्वायानुमिमीतेमेयत्वाव्यापकत्वमिति । मेयत्वसाधनस्य अव्यापकत्वं पक्षः । स्वं पक्षः । स्वेतरत् पक्षादन्यत् । तागले यो न वर्तते स धमों द्विधा स्यात् , स्वमात्रवृत्तिः स्वेतरमात्रवृत्तिश्च । उत्तरः पक्षे व्याहतः । तेनाद्यः एतत्पक्षत्वादिः पक्षे सिध्यति। स च पक्षीकृतेत्यादिमहाविद्यासाध्यस्य व्यापके निष्ठो यो धर्मः तदाश्रितः तदैव, यदि पक्षीकृतं मेयत्वाव्यापकत्वं महाविद्यासाध्यव्यापकनिष्ठं भवेत् । तथा च यदि मेयत्वाव्यापकत्वमुपाधिधर्मों महाविद्यासाध्यव्यापकनिष्ठोऽजनि, तर्युपाधिर्महाविद्यासाध्यव्यापकः संपन्न एवेति साध्यव्यापकत्वं पक्षीकृतशब्देतरत्वोपाधेः सिद्धिसौधमध्यास्त । अत्रापि सर्वत्र धर्मध. ादौ सपक्षे पक्षान्यत्वधर्मेण महाविद्यासाध्यव्यापकं मेयत्वादि, तन्निष्ठमस्तित्वादि, तदाश्रितेन साध्यानुगमः । व्यावानि उत्तानार्थानि । उपाध्यनुमान इति । अनुमानशब्दो हि पुनपुंसकलिलो लिङ्गानुशासने प्रत्यपादीत्यतः उपाध्यनुमानः इत्युक्तम् । महाविद्यासाध्यव्यापकत्वं मेयत्वा. व्यापकत्वं च न कचित्प्रमितमित्याश्रयासिद्धिरित्याह-पक्षीकृतेति । यत्र यत्र महाविद्यासाध्यं तत्र तत्र मेयत्वमिति महाविद्यासाध्यव्यापकत्वस्य मेयत्वादी सिद्धेः । उष्णत्वादौ मेयत्वसद्भावेऽप्यनुष्णत्वाभावेन यत्र यत्र मेयत्वं, तत्र तत्रानुष्णत्वमिति व्याप्तेरभावात् मेयत्वाव्यापकत्वस्यानुष्णत्वादौ सिद्धेश्च अनयोः पूर्वोक्तहेत्वोराश्रयासिद्धत्वादि नाशङ्कयमिति भावः । एवमौपाधिकव्याप्तिकत्वेन व्याप्यत्वासिद्धत्वं महाविद्याहेतोः प्रतिपादितम् । साध्यव्याप्यत्वाभावत्वेन व्याप्यत्वासिद्धत्वमाहव्याप्यत्वासिद्धं चेति । हेतोयत्साध्येन व्याप्यत्वं तेन असिद्धं मेयत्वं महाविद्यासाध्यं मेयत्वहेतुं न व्याप्नोतीत्यर्थः । एतदेव महाविद्यानुमानेनाह-मेयत्वमिति । वं मेयत्वं, स्वस्मान्मेयत्वादितरसर्व जगत् । तयोयुगले यो न वर्तते धर्मः स द्वेधा स्यात्, स्वमात्रवृत्तिः स्वेतरमात्रवृत्तिर्वा । द्वितीयः पक्षान्यत्वादिः पक्षे व्याहतत्वात्सपक्षोपयोगी इति प्राचीनः एतत्पक्षत्वादिर्धर्मः पक्षे सिध्यति । स च पक्षीकृतेत्यादिमहाविद्यासाध्येन अव्याप्यो यः तत्र निष्ठस्तदेव, यदि मेयत्वं महाविद्यासाध्याव्याप्यं भवेदिति मेयत्वस्य महाविद्यासाध्येन अव्याप्यत्वं सिद्धम् । व्यावानि यथा-मेयत्वमधिकरणमित्युक्ते येन केनापि वाच्यत्वादिधर्मेण मेयत्वस्य प्रकृतसाध्यव्याप्यत्वेऽप्युपपद्यमानेन अर्थान्तरम् , अत उक्तमव्याप्यनिष्ठेति । तथापि घटत्वेनाव्याप्यमस्तित्वं तनिष्ठेन अभिधेयत्वादिना अर्थान्तरत्वं, तदर्थ पक्षीकृतेत्यादि । स्वस्वेतरेत्यादिविशेषणकृत्यं पूर्ववदेवेति पुननोंच्यते ।
न च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वाव्याप्याप्रसिद्धेरप्रसिद्धविशेषणतेति वाच्यम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्याप्यत्वं स्वस्वेतरवृत्तित्वरहितकुतश्चियावृत्तनिष्ठाधिकरणं मेयत्वादिति तत्सिद्धेः। पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्याप्यत्वं स्वस्वेतरवृत्तित्वरहितमेयत्वावृत्तिनिष्ठाधिकरणं मेयत्वादिति व्याप्यत्वाभावानुमानम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितमेयत्वाव्यापकनिष्ठाधिकरणं मेयत्वादिति वा । न च अनेन पक्षे मेयत्वव्यापकत्वाभावसिद्धिः, नतु मेयत्वे तयाप्यत्वाभावसिद्धिरिति
Aho ! Shrutgyanam