________________
ज्योतिनिबन्धः।
२७१ कुम्भे गुरुवि शशी सूर्योलिमुखे कुजार्कजौ मकरे। निष्पत्तिरास्ति महती पश्चात्परचक्ररोगभयम् ॥ ७॥ मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः । पापः सप्तमराशौ जातं जातं विनाशयति ॥ ८ ॥ अर्थस्थाने क्रूरः सौम्यैरनीक्षितः प्रथमजातम् । सस्यं निहन्ति पश्चादुप्तं निष्पादयेद्व्यक्तम् ॥ ९ ॥ जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य । सस्यविपत्तिं कुरुतः सौम्यैदृष्टौ न सर्वत्र ।। १० ॥ वृश्चिकसंस्थादर्कात्सप्तमषष्ठापगौ यदा क्रूरौ । भवति तदा निष्पत्तिः सस्यानामपरिहानिः ॥ ११ ॥ विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् । विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः ॥१२॥ त्रिषु मेषादिपु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् । ग्रेष्मिकसस्यं कुरुते समर्घमुभयोपयोगं च ॥१३॥ कार्मुकमृगघटसंस्थः शारदसस्यस्य तद्वदेव रविः । संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥ १४ ॥
इति सस्योत्पत्तिविचारः। इति शूरमहाउश्रीशिवराजविनिर्मिते । ज्योतिर्निबन्धसर्वस्वे
शान्त्युत्पाताः समीरिताः॥
अथ जातकाध्यायः ।
तत्र राशिभेदाः। अथानुभवसंसिद्धं कथ्यते जन्मजं फलम् । गर्गानुकृतशास्त्रानुसारं प्रीतिकरं विदाम् ॥ १ ॥ होरामकरन्दे-निजानि भाग्यान्यवगन्तुमुच्चैरापत्पयोराशिमपि प्रतर्तुम् । द्रव्यं तथोपायितुं जनानां होरां विना नान्य इहास्त्युपायः ॥ २ ॥ वर्णावली या लिखिता विधात्रा ललाटपट्टे भुवि मानवानाम् । होरादृशा निर्मलया यथावत्तां दैवविद्वाचयतीह नान्यः ॥३॥ यदन्यजन्मन्यशुभं शुभं वा कर्मार्जितं तस्य विपक्तिमेतत् । व्यनक्ति शास्त्रं हि दशाक्रमेण घटादिजातं तमसीव दीपः ॥ ४ ॥ लघुजातके - यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्तिम् । व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ॥ ५॥ यवनजातकेया पूर्वकर्मप्रभवस्य धात्री धात्रा ललाटे लिखिता प्रशस्तिः। तां शास्त्रमेतत्मकटी विधत्ते दीपो यथा वस्तु घनेऽन्धकारे ॥ ६ ॥ बृहज्जातके - मत्स्यो घटी नृयुगलं सगदं सवीणं चापी नरोऽश्वजवनो मकरो मृगास्यः । तौली च सस्यदहना प्लवगा च कन्या शेषाः स्वनामसदृशाः समसंचराः स्युः ॥ ७ ॥ लघुजातके-अरुणसितहरितपाटलपाण्डुविचित्राः सितेतरपिशङ्गौ । पिङ्गलकबुरवभ्रुकमलिना रुचयो यथासंख्यम् ॥ ८॥ शीर्षमुखबाहुहृदयोदराणि कटिबस्तिगु.
Aho! Shrutgyanam