________________
२६६
श्रीशिवराजविनिर्मितो
अथ भूकम्पलक्षणम् । भूभारखिन्ननागेन्द्रशेषविश्रामसंभवः । भूकम्पः सोऽपि जगतामशुभाय भवेत्तदा ॥ १ ॥ यामक्रमेण भूकम्पो द्विजातीनामनिष्टदः । अनिष्टदः क्षितीशानां संध्ययोरुभयोरपि ॥२॥ अर्यमाद्यानि चत्वारि दरेन्द्रदितिभानि च । वायव्यमण्डलं त्वेतदस्मिन्कम्पो भवेद्यदि ॥ ३ ॥ नपसस्यवाणिग्वेश्याशिल्पिवृष्टिविनाशनः । पुष्यद्विदैवभरणीपितृभाग्याजपाग्निभम् ॥ ४ ॥ आग्नेयमण्डलं त्वेतदस्मिन्कम्पो भवेद्यदि । नपवृष्टयर्वनाशाय हन्ति शाबरढङ्कणान् ॥ ५॥ आभि. निद्धातृवैश्वेन्द्रवसुवैष्णवमित्रभम् । वासवं मण्डलं त्वेतदस्मिन्कम्पो भवेद्यदि।।६।। राजनाशाय कोपाय हन्ति गुर्जरदर्दुरान् । मूलाहिर्बुध्न्यवरुणपोष्णाप्यााहिभानि च ॥ ७ ॥ वारुणं मण्डलं त्वेतदस्मिन्कम्पो भवेद्यदि । राजनाशकरो हन्ति पौण्डूचीनपुलिन्दकान् ॥ ८॥ प्रायेण निखिलोत्पाताः क्षितीशानामनिष्टदाः । पद्भिर्मासैश्च भूकम्पो द्वाभ्यां दाहः फलप्रदः । अनुक्तं पश्चभिर्मासैस्तदानीं फलदं रजः ॥९॥
इति भूकम्पलक्षणम् ।
--
-
अथ कदलीदुष्टप्रसवशानिमः। उमोवाच --प्रथमः प्रसवो देव रम्भाया दृश्यते यदा । दक्षिणाभिमुखी दृष्टो विदधाति फलं स किम् । भूपाले वा कृषाणे वा फलं कस्मिंस्तु जायते॥१॥ श्रीमहेश्वर उवाच-यदा याम्यमुखा देवि कदली तु प्रसूयते । तदा ग्रामपते शं विदधाति न संशयः ॥ २ ॥ एवं विघ्ने समुत्पन्ने विधानं तत्र कारयेत् । सूतकी चोपचर्या सा कदली हितमिच्छता ॥ ३ ॥ दर्शे तु जागरं कार्य होमं कुर्यात्ततः परन् । कदलैहवनं कार्यमन्यैर्वा समुदाहृतैः ॥ ४ ॥ सहस्रं प्रयतो वाग्मी जपञ्छान्तीरनेकशः । विष्णुस्तु देवता तत्र तल्लिङ्गो मन्त्र उच्यते ॥५॥ विप्रेभ्यः सप्त धान्यानि देयानि विधिवत्ततः । दद्यात्तां कदली राजा विपर्याय धीमो ॥ ६ ॥ एवं कृते विधाने च विघ्नशान्तिस्तु जायते । पूजिते विप्रवर्ये च को सुखमवाप्नुयात् ॥ ७॥
इति कदलीदुष्टप्रसवशान्तिः।
Aho ! Shrutgyanam