________________
२४६
श्रीशिवराजविनिर्मितोचतुर्थकम् । आचार्यों मूलमन्त्रेण जपं कुर्याद्विशेषतः ॥ १८ ॥ इन्द्रसूक्तं रुद्रज मृत्युंजयजपं ततः । इत्थं संपूज्य देवेशं वरुणं कुम्भसंस्थितम् ॥ १९ ॥ सुसंकल्पविधानेन होमकर्म ततश्चरेत् । समिद्भिर्ब्रह्मवृक्षस्य शतमष्टोत्तरं तथा ॥२०॥ सर्पिषा चरुणा चैव मूलमन्त्रेण वाग्यतः । हुनेज्जाप्यं च तेनैव यत इन्द्र भयेति च ॥ २१॥ तिलान्व्याहृतिभिर्तुत्वा शतमष्टोत्तरं पृथक् । भार्याशिशुसमोपेतं यजमानं विशेषतः ॥ २२ ॥ अभिषेकं प्रकुति सूक्तैर्वारुणसंज्ञकैः । समुद्रज्येष्ठादिमन्त्ररिमं मे वरुणस्तथा ॥ २३ ॥ घोषशान्त्यादिभिर्मन्त्रैरभिषेकं समाचरेत् । अभिषेकनिवृत्तौ तु यजमानः समाहितः ॥ २४ ॥ शुक्लाम्बराणि धृत्वाऽथ कुर्यादाज्यावलोकनम् । रूपंरूपेतिमन्त्रेण चित्रं तच्चक्षुरेव च ॥ २५ ॥ देवतापुरतः स्थित्वा धूपदीपनिवेदनम् । दद्यादाचमनं सम्यक्ताम्बूलार्ध्य तथैव च ॥ २६ ॥ नमस्ते सुरनाथाय नमस्तुभ्यं शचीपते । गृहाणाऱ्या मया दत्तं गण्डदोषप्रशान्तये ॥ २७ ॥ आचार्याय च गां दद्यात्सुशीलां च पयस्विनीम् । रक्तवर्णा वस्त्रयुतां सालंकारसंयुताम् ॥ २८ ॥ वस्त्रयुग्म विधानं च यथाविभवसारतः । यक्षगन्धर्वसिद्धैश्च पूजितोऽसि शचीपते ॥२९॥ दानेनानेन देवेश गण्डदोषं विनाशय । अष्टोत्तरशतसंख्यं कुर्याद्राह्मणभोजनम् ॥ ३० ॥ तेभ्योऽपि दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत् । इमां कृत्वा ज्येष्ठाशान्ति यथाविध्युक्तमार्गतः ॥ ३१ ॥ ज्येष्ठानक्षत्रसंभूतगण्डदोषप्रशान्तये । अज्ञानाद्वा यथाज्ञानाद्वैकल्याद्वा धनस्य च । यन्यूनमतिरिक्तं वा तत्सर्व क्षन्तुमर्हसि ॥ ३२॥
इति वृद्धगाग्र्योक्ता ज्येष्ठाशान्तिः।
अथैकनक्षत्रजननशान्तिः । समानभे यदा देवि पितापुत्रौ च सोदरौ । भगिन्यौ वा स्वबन्धू वा तदा पूर्वस्य नाशनम् ॥ १॥ एकस्मिन्नेव नक्षत्रे पुत्रयोः पितपुत्रयोः । प्रसूतयोस्तयोमत्युभवेदेकस्य निश्चयः ॥ २ ॥ विधानं तत्र कर्तव्यं जन्मनक्षत्रपूजनम् । नक्षत्रदेवता पूज्या त्वधिप्रत्यधिपूर्वकम् ॥ ३ ॥ यदृक्षस्य च यद्रव्यं दक्षिणाविधिमन्त्रकम् । तस्य तच्च विधातव्यमृतदैवततुष्टये ॥ ४ ॥ गृह्योक्तेन विधानेन हवनं तत्र कारयेत् । भक्त्या हरिहरौ देवौ स्वर्णरूप्यमयौ शुभौ ॥ ५ ॥ तत्र मूर्तिदानमन्त्रः-विविधस्यास्य विश्वस्य पितरौ विश्वतोमुखौ । पीयेतां मूर्तिदानेन देवी हरिहरावुभौ ॥ ६॥ दानं होमविधेः पश्चादानादन्वभिषेचनम्।
Aho! Shrutgyanam