________________
ज्योतिर्निबन्धः ।
अथापशकुनविधानम् ।
अष्टिषेणिः - बिम्बे विधाय शान्त्यर्थं श्रोत्रियाय निवेदयेत् । दुर्दिने गर्जिते दृष्ट्यां सूर्याचन्द्रमसोर्द्वयोः ॥ १ ॥ दुःस्वप्रदुर्निमित्तापशकुना विलयं ययुः । स्नानदानजपैः पुण्यैरित्याह भगवान्भृगुः || २ || यदाऽपशकुनं पश्येद्विपरीतमु पस्थितम् । सघृतं काञ्चनं दत्त्वा निर्विशङ्कः सुखं व्रजेत् ॥ ३ ॥ वसन्तराज:जाते विरुद्धे शकुनेऽध्वनीनो विवृत्य कृत्वा करपादशौचम् | आचम्य च क्षीरतरोरधस्तात्तिष्ठन्मपथ्येच्छकुनान्तराणि ||४|| विरुद्धे शकुने पूर्वे प्राणायामाष्टकं चरेत् । द्वितीये द्विगुणान्कुर्यात्तृतीये न व्रजेत्कचित् ॥ ५ ॥ नारदः - आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम् । स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ॥ ६ ॥ वाराणस्यां दक्षिणे भागे कुक्कुटो नाम वै द्विजः । तस्य स्मरणमात्रेणाशकुनः शकुनो भवेत् ॥ ७ ॥ अविमुक्तचरणयुगुलं दक्षिणामूर्तेश्च कुक्कुटचतुष्टयम् । स्मरणादपि वाराणस्या निहन्ति दुःस्वप्रमथ शकुनं च ॥ ८ ॥ बृहद्यात्रायाम् अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः । प्रदक्षिणीकृत्य शशाङ्कशेखरं प्रयास्यतः कस्य न सिद्धिरिष्यते ॥ ९ ॥ श्रीपतिःआद्ये विरुद्धे शशुने प्रतीक्ष्य प्राणान्नृपः पञ्च च पट् च यायात् । अष्टौ द्वितीये द्विगुणस्तृतीये व्याहृत्य नूनं गृहमभ्युपेयात् ।। १० ।।
इत्यपशकुनविधानम् ।
२१५
अथ क्षुतम् ।
अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं परिभावयामः । त्रस्यन्ति यस्माच्छकुनाः समस्ता मृगाधिनाथादिव वन्यसत्त्वाः ॥ १ ॥ क्षुतं निषिद्धं सर्वत्र गोक्षुतं निधनप्रदम् । वामे पृष्ठे शुभं तच्च दक्षिणेऽग्रे न शोभनम् ||२|| प्रतियामं तु पूर्वादौ क्रमात्क्षुतफलं विदुः । विघ्नः शोकः क्षतिलाभो भोज्यं वार्ता कलिः सुखम् || ३ || इन्दिरा मरणं सिद्धिः पीडा भोगाः सुखासुखे । निष्फलं चोपविष्टस्य पूर्वतः क्षुतजं फलम् ॥ ४ ॥ मागन्यपुंसः परतस्तत्रैव च पुनः पुनः । हठात्कफाच्छिशोवृद्धात्क्षुतं जातं वृथा जगुः || ५ || स्वमस्याऽऽयन्तयोः शस्तं क्षुतं नो भोजनाग्रतः । भोजनान्ते यदि भवेद्भोज्यलाभः परेऽहनि ॥ ६॥ अन्तर्वत्नी कुमारी च किंनरी मद्यकारिका । बुरुडी चर्मकारी च निन्द्यमासां
Aho! Shrutgyanam