________________
ज्योतिर्निवन्धः।
१५१ जन्मादिदुःस्थानगयो यो । एकस्य पूजामपि तत्र कृत्वा पाणिग्रहं कार्यमतः सुसम्यक् ॥ १२ ॥
अत्रापेक्षितबृहस्पतिशान्तिरभिधीयते । तत्र शोनकः-कन्यकोद्वाहकाले तु आनुकूल्यं न विद्यते । ब्राह्मणस्योपनयने गुरोविधिरुदाहृतः॥१॥ सुवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत् । ऐशाने धवलं कुम्भं धान्योपरि निधाय च ॥२॥ दमनं मधुपुष्पं च तथा पालाशसर्पपान् । मांसी गुडूच्यपामार्गविडङ्गी शङ्गिनी वचा ॥ ३ ॥ सहदेवी हरिक्रान्ता सापधी शतावरी । कृत्वाऽऽज्यभागपर्यन्तं स्वशाखोक्तविधानतः ॥ ४ ॥ गृह्योक्तमण्डलेऽभ्यर्च्य पीतपुष्पाक्षतादिभिः । देवपूजोत्तरे काले ततः कुम्भानुमन्त्रणम् ॥ ५ ॥ अश्वत्थसमिधश्चाऽऽज्यं पायसं सर्पिरन्वितम् । यवव्रीहितिलाः साज्या मन्त्रेणैव बृहस्पतेः॥६॥ अष्टोत्तरशतं सर्व होमशेष समापयेत् । दारपुत्रसमेतस्य अभिषेकं समाचरेत् ॥ ७॥ कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रतः । प्रतिमां कुम्भवस्त्रं च ह्याचार्याय प्रदापयेत् । ब्राह्मणान्भोजयेत्पश्चाच्छुभदः स्यान्न संशयः ॥ ८॥
इति शौनकोक्तबृहस्पतिशान्तिविधिः।
अथाऽऽदित्यशान्तिः। शौनकः-ब्राह्मणस्योपनयने नानुकूलो भवेद्रविः । तस्य शान्ति प्रवक्ष्यामि मन्त्रौषधिविधानतः ॥१॥ अत्रोपनयनग्रहणं विवाहादीनामप्युपलक्षणम् । उपनयनात्पूर्वद्युः कृत्वा पुण्याहवाचनम् । गृहस्येशानदिग्भागे गोमयेनोपलेपयेत् ।२॥ कुङ्कमेनोल्लिखेत्पझमष्टपत्रं सकेसरम् । सुवर्णेन रविं कृत्वा द्विभुजं पद्मधारिणम् ॥३॥ कृत्वाऽऽज्यभागपर्यन्तं तत्र कृत्वा तु पूर्ववत् । स्वशाखोक्तविधानेन ह्याचार्यो होममाचरेत् ॥ ४ ॥ आकृष्णेनेतिमन्त्रेण समिदाज्यचरूजुहेत् । अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥ ५॥ तिलवीहीश्च हुत्वाऽथ होमशेषं समापयेत् । दारपुत्रसमेतस्य ह्यभिषेकं समाचरेत् ॥ ६॥ कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रकैः । ऋत्विग्भ्यो दक्षिणां दद्यादन्येभ्यश्च स्वशक्तितः ॥ ७ ॥ प्रतिमां वस्त्रकुम्भं च ह्याचार्याय प्रदापयेत् । एवं यः पूजयेत्सूर्य सर्वदोषोऽस्य नश्यति ॥ ८॥
इत्यादित्यशान्तिः।
Aho! Shrutgyanam