________________
ज्योतिनिबन्धः।
११९ कार्य व्रत तथा ॥ ४ ॥ पुत्रचूडामणी माता यदि सा गर्भिणी भवेत् । शस्त्रेण मृत्युमाप्नोति तस्मात्क्षौरं विवर्जयेत् ॥ ५॥ नारद:-सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पश्चाब्दात्मागथो तु गर्भिण्यामपि कारयेत् ॥ ६॥ यदि गर्भविपत्तिः स्याच्छिशोर्वा मरणं भवेत् । सहोपनीत्या कुर्याच्च तदा दोषो न विद्यते ॥ ७ ॥ मेधातिथिः-चौले च व्रतबन्धे च विवाहे यज्ञकर्मणि । भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् ॥ ८ ॥ वधूवरान्यतरयोर्जननी चेद्रजस्वला । तस्याः शुद्धौ पर कार्य माङ्गल्यं गुरुरब्रवीत् ॥ ९॥ मनुस्मृतौ-- उद्वाहव्रतचूडासु माता यदि रजस्वला । तदा न मङ्गलं कार्य शुद्धी कार्य शुभेच्छुभिः॥१०॥ गर्ग:-यस्योद्वाहादिमाङ्गल्यं माता तस्य रजस्वला । तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः ॥ ११ ॥ बृहस्पतिः-वैधव्यं च विवाहे स्याजडत्वं व्रतबन्धने। चूडायां च शिशोर्मृत्युर्विघ्नं यात्राप्रवेशयोः ॥ १२ ॥ रजस्वलाविषयमेतत् । कारिकानिबन्धे-सूतिकोदक्ययोः शुद्धयै गां दद्याद्धेमपूर्विकाम् । प्राप्ते कर्माण शुद्धा स्यादितरस्मिन्न शुध्यति ॥ १३ ॥ अलाभे सुमुहूर्तस्य रजोदोषे तु संस्थिते । श्रियं संपूज्य तत्कुर्याद्वृत्रहत्याभयंकरीम् ॥ १४ ॥ हैमी माषमितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् । प्रत्यूचं पायसं हुत्वाऽभिषिच्य शुभमाचरेत् ॥ १५ ॥ गर्ग:-न गुरौ सिंहराशिस्थे सिंहांशकगतेऽपि वा । क्षौरकर्म प्रकुर्वीत विवाहं गृहकर्म वा ॥ १६ ॥ नर्मदोत्तरदेशस्थे सिंहस्थे देवमन्त्रिणि । शुभकर्म न कुर्वीत निषेधो नास्ति दक्षिणे ॥ १७ ॥
इति चौलनिषेधः।
अथ क्षौरनिषेधः । उदन्वतोऽम्भसि स्नानं नखकेशनिकृन्तनम् । नान्तर्वत्न्याः पतिः कुर्यादप्रजो भवति ध्रुवम् ॥ १॥ स्मृत्यन्तरे-सिन्धुस्नानं द्रुभच्छेदं वपनं प्रेतवाहनम् । विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः ॥ २ ॥ शौरं नैमित्तिकं कुर्यान्निषेधे सत्यपि ध्रुवम् । पित्रोः प्रेतविधानं च दोषस्तत्र न विद्यते ॥ ३ ॥ गङ्गायां भास्करक्षेत्रे मातापित्रोदंतेऽहनि । आधाने सोमपाने च षट्सु क्षौरं विधीयते ॥ ४॥ पञ्चाशद्धायनात्पूर्व क्षौरं नैमित्तिकं विना । न कुर्यात्तत्तदूर्ध्वं तु स्वेच्छया वपनं चरेत् ॥ ५॥ मुण्डनस्य निषेधेऽपि कर्तव्यं च विधीयते । छेदनं दृषदा वाऽपि न क्षरेण कदाचन ॥ ६॥ राजा योगी पुरन्ध्री च माता
१ क. ख. रमन्नं न कुन
Aho ! Shrutgyanam