SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। ११७ रवी लग्ने कुष्ठी धरणितनये पित्तगदभाक् शनौ वातव्याधिः कुशशशिनि भिक्षाटनकरः । बुधे ज्ञानी भोगी युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवति च नरः सत्रद इह ॥ १६ ॥ कण्टकान्त्यनिधनत्रिकोणगास्तत्फलं ददति यत्तनावमी । षष्ठ इन्दुरशुभस्तथाऽष्टमः केन्द्रकोणगतसौरिरन्नहत् ॥ १७ ॥ इत्यन्नप्राशनम् । अथ चूडाकरणम् । नारदः-पञ्चमे वा तृतीयेऽन्दे स्वकुलाचारतोऽपि वा । बालानां जन्मतः कार्य चौलमावत्सरत्रयात् ॥ १॥ मघादिपञ्चके चौलं हित्वा क्षीणविधुं मधुम् । क्रूरवारं निशां रिक्ता षष्ठी संध्यां च जन्मभम् ॥२॥ षड्गुरुशिष्यः-आयेऽब्दे कुर्वते केचित्पञ्चमेऽन्ये द्वितीयके । उपनीत्या सहवेति विकल्पाः कुलधर्मतः ॥३॥ आचार्य:-तृतीये पञ्चमेऽब्दे वा चौलको प्रशस्यते । प्राग्वा समे सप्तमे वा सहोपनयनेन च ॥ ४ ॥ वृद्धनारदः-जन्मतस्तु तृतीयेऽब्दे श्रेष्ठमिच्छन्ति पण्डिताः । पञ्चमे सप्तमे वर्षे जन्मतो मध्यमं भवेत् । अधर्म गर्भतः स्याद्वा दशमैकादशेऽपि वा ॥ ५ ॥ नारदः-सौम्यायने नास्तगयोरसुरासुरमन्त्रिणोः । अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे ॥ ६ ॥ बृहस्पति:-सोमवारः सिते पक्षे कृष्णपक्षेऽतिगहितः । बुधवारः शुभः प्रोक्तः पापग्रहयुते बुधे ।। ७ ॥ पापग्रहाणां वारादौ विप्राणां तु शुभो रविः । क्षत्रियाणां क्षमासुनुर्विट्शूद्राणां शनिः शुभः ॥ ८॥ नारदः- दस्रादितीज्यचन्द्रेन्द्रपूषभानि शुभान्यतः । चौलकर्मणि हस्तक्षत्रिीणि त्रीणि च विष्णुभात् ॥ ९ ॥ श्रीपतिः-षट्कृत्तिकः पञ्चमघस्त्रिमैत्रो ब्राह्माष्टको यश्चतुरुत्तरश्च । क्षौरी स वर्ष चतुराननोऽपि न प्राणितीति प्रकटः प्रवादः ॥ १० ॥ बृहस्पति:-संपदि क्षेमभे मैत्रे साधके भेऽतिमित्रभे । चौलकर्म प्रशस्तं स्याच्छोभनांशगते विधौ ॥ ११ ॥ आयशो विपदि त्याज्यः प्रत्यरे चरमोंऽशकः । वधे त्याज्यस्तृतीयोऽशः शेषांशा अपि शोभनाः ॥ १२॥ नारदः-अष्टमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके । न नैधने भे शीतांशी षष्ठाष्टान्त्य६। ८।१२ । विवर्जिते ॥ १३ ॥ धन २ त्रिकोण ९ । ५ केन्द्रस्थैः १ । ४ । ७। १० शुभैस्च्यायारि ३। ११ । ६ गैः परैः। चौलानप्राशने शस्ताः सौम्या रन्ध्रव्ययोपगाः ॥ १४ ॥ वसिष्ठः-वृपभश्च कुलीरश्च यमकन्यातुलाधराः । मकरश्चैव मीनश्च क्षुरकर्मणि वर्जिताः ॥ १५॥ मेषे दुःखं मृगेन्द्रे च १ क. केन्द्रेषु शु Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy