________________
हरीतक्यादिनिघण्टुः भा. टी. । द्रव्यपरीक्षा २०.
( ३५७ )
सूक्ष्मास्थिमां मला पथ्यासर्वकर्मणि पूजिता । क्षिप्ताभपि निमजेद्या भल्लातक्यस्तथोत्तमाः ॥ १॥ वाराहमूद्रवत्कंदो वाराही कंद संज्ञकः ।
सौवचलं तु काचाभं सैंधवं स्फटिकप्रभम् ॥ २ ॥ सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकपुत्तमम् । इन्द्रगोपप्रतीकाशं मनोहा चोत्तमा मता ॥ ३ ॥ श्रेष्ठ शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्य्यते । तोयपूर्ण कांस्यपात्रे प्रतानेन विवर्द्धते ॥ ४ ॥ कर्पूरस्तुवरः स्निग्ध एला सूक्ष्मफला वरा । श्वेतचन्दनमत्तं सुगन्धि गुरुपूजितम् ॥ ५ ॥ रक्तचन्दनमत्यंत लोहितं प्रवरं मतम् । काकतुं निभः स्निग्धो गुरुः श्रेष्ठोऽगुरुर्मतः ॥ ६ ॥ सुगंधि लघु रूक्षं च सुरदारु वरं मतम् । सरलं स्निग्वमत्यर्थे सुगंधि च गुणावदम् ॥ ७ ॥ अतिपीता प्ररास्ता तु ज्ञेना दारुनिशा बुधैः जातीफलं गुरु स्निग्नं समं शुभ्रांतरं वरम् ॥८॥ मृद्वीका सोत्तमा ज्ञेया या स्याद्गान्तन पन्निभा । करमर्दफलाकारा मध्यमा सा प्रकीर्त्तिता ॥९॥