________________
( ६४ )
भावप्रकाशनिघण्टुः भा. टी. 1
पद्मक- कसैला, तिक्त, शीतल, वातवर्धक, हलका, गर्भको स्थापन करनेवाला, वीर्यवर्धक तथा विज्ञ, दाह, विस्फोट, कुष्ठ, कफ, रक्तपित्त, चमन, व्रण और तृषाको दूर करता है ॥ ३० ॥ ३१ ॥
गुग्गुल्लुः ।
मुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः ॥ ३२ ॥ कुम्भोल्लूखलकं कीबे महिषाक्षः पलंकषः । महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ॥ ३३ ॥ हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्चजातयः । मृगांजन सवर्णस्तु महिषास इति स्मृतः ॥ ३४ ॥ महानीलस्तु विज्ञेयः स्वनामसमलक्षणः । कुमुदः कुमुदाभः स्यात् पद्मो माणिक्यमन्निभः ॥ ३५ ॥ हिरण्याख्यस्तु हेमाभः पंचानां लिङ्गमीरितम् । महिषाक्षो महानीलो गजेंद्राणां हित वुभौ ॥ ३६ ॥ हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ । विशेषेण मनुष्याणां कनकः परिकीर्तितः ॥ ३७ ॥ कदाचिन्महिषाशश्च मतः कैश्चिन्नृणामपि । गुग्गुलुर्विशदस्तिक्तो वीर्योष्णः पित्तलः सरः ॥ ३८॥ कषायः कटुकः पाके कटू रूक्षो लघुः परः । भग्रसन्धानकृवृष्यः सूक्ष्मस्तप्य रसायनः ॥३९॥ दीपनः पिच्छिलो बल्यः कफवातत्रणापचीः । मेदोमेहाश्मवातांश्व वेदकुष्ठाममारुतान् ॥ ४० ॥ पिण्डकाग्रंथिशोफाश गण्डमालाकृमीञ्जयेत् । माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तदा ॥ ४१ ॥